________________
११८
भुवनसुन्दरसूरिकृतटीकायुतं (भुवन० )-मतान्तरमाह-शिवादित्येति । पूर्वोक्तन्यायेनेति । साध्यप्रसिद्धिः पुनरित्यायुक्तन्यायेन महाविद्यासाध्यस्य अभावप्रसिद्धिं विधाय प्रतिपक्षानुमानं कुर्वते-अयं शब्द इति । स्वस्मिशब्दे निष्ठाः स्वनिष्ठाः शब्दत्वादयः । एतन्महाविद्यासाध्यात्यन्ताभावव्यतिरिक्ताश्च ते स्वनिष्ठाश्च, तेषां भावस्तत्त्वं, तेन रहितो धर्मः शब्दान्यनिष्ठो वा, एतन्महाविद्यासाध्यात्यन्ताभावो वा । आद्यः पक्षे व्याहतः, सपक्षे च प्रयोजकः । द्वितीयस्तु महाविद्यासाध्यात्यन्ताभावः एव, तदधिकरणं शब्दः इत्यर्थः । परमतं निरस्यति-तन्नेति । महाविद्यायामपि मेयत्वादिहेतुः, प्रतिपक्षानुमानेऽप्ययमेव हेतुरिति हेत्वैक्येन अस्यापि दोषस्य अभीष्टविरोधे एवान्तर्भावः इत्यर्थः । कथं तर्हि प्रतिपक्षणीयमित्याह-तस्मादिति । अत्र प्रयोजनव्याख्यानमनन्तरोक्तमेव ज्ञेयम् । प्रयोगान्तरं रचयति-तथा स्वस्वेतरेति । अत्रानन्तरोक्तः एव पक्षः । अनित्यत्वस्यात्यन्ताभावो नित्यत्वं, तद्वान्नित्यः, तत्र निष्ठा यस्य । स्वस्मिन्पक्षीकृतशब्देतरस्मिंश्च वृत्तित्वरहिताश्च येऽनित्यत्वात्यन्ताभाववनिष्ठास्तदाश्रयः शब्द इत्यर्थः । स्वस्वेतरवृत्तित्वरहितः स्वमात्रवृत्तिर्वा, स्वेतरमात्रवृत्तिर्वा । द्वितीयः पक्षे व्याहतः इति स्वमात्रवृत्तिः शब्दत्वादिः पक्षे सिध्यति । स च धर्मोऽनित्यत्वात्यन्ताभाववनिष्ठस्तद्देव, यहि शब्दो नित्यः स्यात्, तस्य धर्मस्य अन्यत्रावर्तनादिति शब्दनित्यत्वसिद्धिः । अत्र सपक्षे शब्दान्यत्वं धर्मः सर्वत्र ज्ञेयः । स चानित्यत्वात्यन्ताभाववति गगनादौ निष्ठः एव । अत्राभिधेयत्वादिति हेतुः, पूर्वत्र च मेयत्वादितीत्यस्यानुमानस्य सत्प्रतिपक्षत्वम् । 'हेतुभेदेन साध्याभावसाधकः समानबलः सत्प्रतिपक्षः' इति तल्लक्षणात् ।।
यद्वैवं सत्प्रतिपक्षता । वर्तमानः कालः इदानींतनपक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वरहितवान् कालत्वात् अतीतकालवत् इत्या. दि । इदानींतनपक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वरहितः इदानींतनत्वरहितो वा स्यात्, पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वरहितो वा स्यात् । आद्यः पक्षे व्याहतः । न हि इदानीमस्ति इदानींतनत्वरहितश्चेति घटते । पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वरहितश्च पक्षीकृतशन्व्यतिरिक्तोन संभवत्येव । पक्षीकृतशब्दान्यत्वस्य पक्षीकृतशब्दतदितरवृत्तित्वरहितस्य घटाद्यनित्यनिष्ठस्य पक्षीकृतशब्दव्यतिरिक्त सर्वस्मिन्नुपपत्तेरिति । तेन पक्षीकृतः शब्दः एव पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वरहितो वर्तमाने काले पर्यवसानात्सिध्यतीति पक्षीकृतशब्दे अनित्यत्वाभावसिद्धिरिति । एवमिदानींतनत्वविशेषितसकलमहाविद्यासाध्यवत्त्वरहितान्वितवर्तमानकालसाधनेन सर्वासामपि महाविद्यानां सत्प्रतिपक्षता द्रष्टव्या।
१ प्रयोगव्या इति च पुस्तकपाठः ।
Aho ! Shrutgyanam