________________
१०२
भुवनसुन्दरसूरिकृतटीकायुतं (भुवन० ) अत्रे महाविद्यावादी शङ्कते-अथ साध्येति । घ्यापकत्वेनाभिमतं व्यापकत्वाभिमतमित्यर्थः । प्रकृते चेति । प्रकृते प्रस्तुते महाविद्यानुमाने पक्षीकृतेत्यादिकं व्यापकं साध्य न्यस्तम् । न च तस्येति । न च तस्य महाविद्यासाध्यस्य स्वस्वेतरेत्यादिकस्य श्रावणत्वात्यन्ताभावोऽश्रावणत्वोपार्व्यािपकः । हेतुमाह-पक्षीकृतेति । पक्षीकृतशब्देत्यादिमहाविद्यासाध्यसहितं यच्छब्दत्वादि तत्र निष्ठो योऽत्यन्ताभावस्तस्य प्रतियोगित्वात् अश्रावणत्वोपाधेरित्यर्थः । एतावता महाविद्यासाध्यवति शब्द वेऽश्रावणत्वस्याभावाद्यत्र महाविद्यासाध्यं तत्रोपाधिरित्युपाधेः साध्यव्यापकत्वं नास्ति । फलितमाह-तेन साध्येति । आचार्यों दूषयति-तन्नेति । व्यापकत्वेति । व्यापकत्वाभिमतं साध्यमित्यर्थः । किंवा प्रकृतसाध्यसाधनेति । प्रकृतसाध्यव्यापकः प्रकृतसाधनाव्यापक उपाधिरिति विशेषलक्षणं वा विवक्षितमिति भावः ।
आद्यं दूषयति-नाद्यः इति । व्याघातं स्पष्टयति-यत्किश्चियापकेति । व्यापकं च तदभिमतं च व्यापकाभिमतं साध्यं यत्किश्चिदनित्यत्वादि, तव्यापकस्य स्वात्मादि यत्किञ्चित्सा. धनमश्रावणत्वादिरूपमेव, तस्य व्यापकत्वादुपाधेः साधनाव्यापकत्वानुपपत्तिः । स्वात्मादीत्यत्र स्वात्मशब्दः पूर्वोक्ताश्रावणत्वोपाध्यपेक्षः । अयमाशयः-घटादयो नित्याः अश्रावणत्वादात्मादिवदित्याद्यनुमाने नित्यत्ववादिना कृते योऽश्रावण वादिहेतुः, स एतदुपाधिरूपः एवेत्यश्रावणत्वाद्युपाधिरेतस्य साधनस्य व्यापक एवेति साधनाव्यापकत्वं नोपपद्यतेत्यर्थः । द्वितीयमुत्थापयतिनापि द्वितीय इति । पक्षीकृतशब्देत्यादि । साध्यव्यापकस्य मेयत्वसाधनाव्यापकस्योपाधेर्भवद्भिरस्वीकाराल्लक्ष्यलक्षणयोः, लक्ष्य उपाधिः, लक्षणं प्रकृतसाध्यव्यापक इत्यादिकं विशेषलक्षणं, तयोरप्यसिद्धेः । लक्षणत्वस्वीकारे तु तस्योपाधित्वमेव स्यादित्याह-सिद्धौ वेति ।
अथ महाविद्याविरोधिनामपि साध्यव्यापकः साधनाव्यापकः इत्युपाधिसामान्यलक्षणं वा विवक्षितम् । उभयथापि पूर्वदोषापत्तिरिति मन्यसे । तन्न । अस्माभिः साध्यपदेन पक्षनिष्ठतया विप्रतिपन्नं प्रति प्रतीत्यपर्यवसानेन ज्ञाप्यस्यानित्यत्वस्य प्रकृतस्य विवक्षितत्वात् । तेन अनित्यत्वव्यापको मेयत्वाव्या. पकः इति प्रकृतोपाधिविशेषलक्षणम् ।
(भुवन०)-चोद्यपरिहारसाम्यरूपया प्रतिबन्धा परः शङ्कते-अथ महाविद्येति । महाविद्याविरोविनां भवतामपि साध्यव्यापकेत्यादिविकल्पयोः पूर्वदोषः स्यादित्यर्थः । ग्रन्थकारः प्रत्युत्तरयति-तन्नेति । अस्माभिः साध्यपदेन महाविद्यासाध्यं न विवक्षितं, किन्तु पक्षे शब्दादौ निष्ठतया विप्रतिपन्नं प्रतिवादिनं प्रति प्रतीत्यपर्यवसानेन अनित्यत्वं विना साध्यप्रतीतिर्न स्यादित्यपर्यवसानेन ज्ञाप्यमनित्यत्वं विवक्षितम् । एतावता किमुक्तं भवतीत्यत आह-तेनेत्यादि । प्रकृतोऽधिकृतो य उपाधिरश्रावणत्वादिरूप इति भावः।
कथं पुनरस्य दोषत्वमिति चेत् । अश्रावणत्वव्यापकनिवृत्तौ अनित्यत्व
१ अथ महा इति च पुस्तक पाठः ।
Aho ! Shrutgyanam