________________
५०१
महाविद्याविडम्बनम् । यति-अनित्यनिष्ठेति । अनित्यनिष्ठाधिकरणमित्युक्ते मेयत्वादिना अर्थान्तरत्वं वारयितुमाहनित्यत्तित्वरहितति । नित्यवृत्तित्वरहितानित्यनिष्ठाधिकरणमित्युक्ते व्याघातोऽत उक्तम्अनित्यनित्यत्तित्वरहितेति । अनित्यनित्यवृत्तित्वरहिताधिकरणमित्युक्तौ नित्यत्वेनार्थान्तरत्वमत आह-अनित्यनिष्ठेति । अनित्यवृत्तित्वरहितानित्यनिष्ठाधिकरणमित्युक्ते व्याघातः स्यादित्युक्तं अनित्यनित्यत्तित्वरहितेति । अनित्यनित्यवृत्तित्वरहितानित्यनिष्ठाधिकरणमित्युक्ते व्याघातः, यस्य कस्यचिदपि गगनधर्मस्यानित्यनित्यवृत्तित्वरहितस्य नित्यमात्रवृत्तेरनित्यनिष्ठत्वायोगादत उक्तम्-शब्दतरेति । न चैवं व्याघातः । शब्दानित्यत्वोपगमेन गगनशब्दमात्रवृत्तेर्गगनशब्दसंबन्धादेरुपगमे प्रतिज्ञात्वार्थपर्यवसानात् । शब्देतरानित्यनित्यवृत्तित्वरहितानित्यनिष्ठः तु अनित्येषु शब्देतरानित्यत्वमस्ति । नित्यानां पक्षतुल्यत्वेन सपक्षत्वाभाव इति व्याप्त्यनुगमो द्रष्टव्यः । विशेषणकृत्यमाह-अनित्यनिष्ठेति । नित्ये गगनेऽनित्यवृत्तित्वधर्मस्तथापि व्याहत एवेत्यत आह-यद्यपीति । गगनेऽव्याहत इति । अव्याहत इति च्छेदः ॥ १॥ १ (भुवन० )-तत्र प्रथम
अपक्षसाध्यवद्वत्तिविपक्षान्वयि यन्न तत् ।
साध्यवद्वृत्तितायुक्तं साध्यते साध्यवर्जिते । __ इति कारिकामाश्रित्य या प्रवृत्ता तामाह-गगनमतच्छब्देतरानित्यनित्येत्यादि । व्याख्या। गगनं पक्षः । एतच्छब्दादितरे येऽनित्या एतच्छब्देतरा नित्याः। ते च नित्याश्च एतच्छ देतरानित्यनित्याः । तत्र वृत्तियेषां ते एतच्छब्देतरानित्यनित्यवृत्तयः, तेषां भावस्तत्त्वं । तेन रहितः । अनित्ये निष्ठा यस्य सोऽनित्यनिष्ठः । शब्देतरानित्यनित्यवृत्तित्वरहितश्चासौ अनित्यनिष्ठश्च, तस्याश्रयो गगनमित्यर्थः । एवंविधश्चात्र धर्मों गगनशब्दमात्रवृत्तिर्गगनशब्दसंबन्धादिर्वा विश्वप्रतियोगिकः शब्दाकाशान्योन्याभावादिर्वा । स च नित्ये गगन एव वर्तनाच्छब्देतरानित्ये च कस्मिंश्चिदप्यवर्तनाच्छब्देतरानित्यनित्यरूपयुगलवृत्तित्वरहित एव । स च धर्मोऽनित्यवृत्तिस्तदैव स्यात्, यदि शब्दोऽनित्यः स्यात् । तस्य च धर्मस्य गगने वर्तनेऽपि गगनस्य नित्यत्वेनोभयवादिसंमतत्वादनित्यवृत्तित्वं न स्यात् । तस्माद्गले पादुकान्यायेनोभयोविवादापन्नत्वाच्छब्दस्यैवानित्यत्वमङ्गीकार्यम् । एवंविधश्चात्र धर्मो मेयत्वसत्त्ववाच्यत्वादिर्न घ. टते । तस्य नित्यानित्यरूपयुगलवृत्तित्वात् । नित्यत्वादिश्चानित्यवृत्तीति पदेन निरस्तः । अनित्यमा. त्रवृत्तिरनित्यत्वादिश्व पक्षितगगने नित्ये न सम्भवति । तस्मात्पूर्वोक्तो गगनशब्दसंबन्धादिरेव साध्यधर्मोऽत्र ज्ञेयः । अत्र च दृष्ठान्तीक्रियमाणेषु घटादिषु अनित्येषु घटत्वादिः शब्देतरानित्यत्वादिर्वा धना मन्तव्यः । नित्यानां शब्दस्य चात्र पक्षतुल्यत्वेन सपक्षत्वाभावो न दोषपोषायेति । तथैव च प्रतिपादयति-अत्र वक्ष्यमाणासु चेत्यादि । घट इत्युपलक्षणं । तेन पटस्तम्भादयस्तद्धर्माश्च सर्वेऽप्यनित्या ग्राह्याः । अथाद्यं विशेषणं परित्यज्य व्यावृत्तिचिन्तां करोति-अनित्यनिष्ठेत्यादि । तथोक्ते च मेयत्वादिभिनित्यत्वरूपाऽर्थान्तरता स्यात् । तन्निवृत्यर्थमेतच्छब्देतरानित्येत्यादि । तथा
१ प्रतिशातार्थप इति स्यात् ()।
Aho ! Shrutgyanam