________________
हरीतक्यादिनिघण्टुः भा. टी. ।
फलवर्गः ५.
( १६३ )
तत्रादावाम्रस्य नाम, गुणाः 1
आम्रश्वतो रसलोऽसौ सहकारोऽतिसौरभः । कामांगो मधुदूतश्च माकन्दः पिकवल्लभः ॥ १ ॥ आम्रपुष्पमतीसारकफपित्तप्रमेहनुत् । असृग्दरहरं शीतं रुचिकृद् ग्राहि वातलम् ॥ २ ॥ आम्र बालं कषायाम्ले रुच्यं मारुतपित्तकृत् । तरुणं तु तदत्यम्लं रूक्षं दोषत्रयास्रकृत् ॥ ३ ॥ आम्रमामं त्वचाहीनमातपेऽतिविशोषितम् । अम्लं स्वादु कषायं स्यादभेदनं कफवातजित् ॥४॥ पक्वं तु मधुरं वृष्यं स्निग्धं बलसुखप्रदम् । गुरु वातहरं हृद्यं वयं शीतमपित्तलम् ॥ ५ ॥ कषायानुरसं वह्निश्लेष्मशुक्रविवर्द्धनम् । तदेव वृक्षसंपक्वं गुरु वातहरं परम् || ६ || मधुराम्लरसं किंचिद्भवेत्तत्पित्तनाशनम् । आम्र कृत्रिमपक्वं चेत्तद्भवेत्पित्तनाशनम् ॥ ७ ॥ रसस्याम्लस्य हानेस्तु माधुर्य्याच्च विशेषतः । चूषितं तत्परं रुच्यं बल्यं वीर्य्यकरं लघु ॥ ८ ॥ शीतलं शीघ्रपाकि स्याद्वातपित्तहरं सरम् । तद्रसो गालितो बल्यो गुरुवतहरःसरः ॥ ९ ॥