________________
हरीतक्यादिनिघण्टुः भा. टी. 1
पद्मिनी ।
मूलनालदलोत्फुलफलैः समुदिता पुनः । पद्मिनी प्रोच्यते प्राज्ञैर्बिसिन्यादिश्व सा स्मृता ॥ ६॥ आदिशब्दात् नलिनीकमलिनीत्यादिः ।
( १४९ )
पद्मिनी शीतला गुर्वी मधुरा लवणा च सा । पित्तासृक्कफनुद्रूक्षा वातविष्टंभकारिणी ॥ ७ ॥
मूल, नाल, पत्र आदि युक्त और प्रफुल्लित कमलको पद्मिनी तथा बिसिनी कहते हैं ।
पद्मिनी- शीतल, गरी, मधुर, लवणरसयुक्त, वात तथा मलके विष्टम्भ को करनेवाली तथा पित्त, रक्तविकार, कफ इनको नष्ट करनेवाली और रूक्ष है ॥ ६ ॥ ७ ॥
नवपत्रादि ।
संवर्तिका नवदलं वीजकोशोब्जकर्णिका । किञ्जल्कः केसरः प्रोक्तो मकरंदो रमः स्मृतः ॥ ८ ॥ पद्मनालं मृणालं स्यात्तथा बिसमिति स्मृतम् । संवर्तिका हिमा तिक्ता कषाया दाहतृप्रणुत् ॥ ९॥ मूत्रकृच्छ्रगदव्याधिरक्तपित्तविनाशिनी । पद्मस्य कर्णिका तिक्ता कषाया मधुरा हिमा || १ ० ॥ मुखवैशद्यकुल्लवी तृष्णासृक्कफपित्तनुत् । किंजल्कः शीतलो वृष्यः कषायो ग्राहकोऽपि सः ११ कफपित्ततृषादाहरक्ताशविषशोथजित् । मृणालं शीतलं वृष्यं पित्तदाहास्रजिद्गुरुः ॥ १२ ॥ दुर्जरं स्वादुपाकं च स्तन्यानिल कफप्रदम् । संग्राहि मधुरं रूक्षं शालूकमपि तद्गुणम् ॥ १३ ॥