________________
काव्यमाला।
नित्यं तया सह विलस्य च सर्वदिक्षु
सायं स्वबान्धवसमीपमुपाययौ च ॥ ५३ ॥ जज्ञे तयोरथ घटोत्कचनामधेयः __ सूनुर्बली विपुलशस्त्रभृतां वरेण्यः । पृष्ट्वाथ भीममगमद्विपिनं हिडम्बा
स्मार्योऽस्मि कार्यत इतीरितगीः सुतोऽपि ॥ १४ ॥ श्रान्तान्वहन्वपुषि वल्कजटाभृतोऽथ
बन्धून्गुरुक्षितिरुहानिव जङ्गमोऽद्रिः। अध्वेक्षितार्चितपराशरसूनुदिष्ट्या
भीमो जगाम तरलः पुरमेकचक्राम् ॥ ५५ ॥ विप्रस्य कस्यचिदुपाश्रयमाप्य तस्थु___ स्ते भैक्ष्यभोजन जो भुजशालिनोऽपि । अस्मिन्पुरे सरसि वा बकवारभुज्य___ मानप्रजातिमिकुले विधुरत्वभाजि ॥ १६ ॥ वारे द्विजस्य निजवासपदप्रदस्य ___ कर्तु चिरादुपकृति प्रहितो जनन्या । भीमो बकाय बहुभोज्यभरं गृहीत्वा ___ संकेतपर्वतशिलाशिखरं जगाम ॥ १७ ॥ आहूय भोजनकृते बकदैत्यमन्न__मश्नन्नयं स्वयमयन्त्रितशौर्यलक्ष्मीः । साटोपकोपममुमद्भुतसंगरेण
भीमो जघान घननालमिवोरुवातः ॥ १८ ॥ मदैवतेन करुणां मयि तन्वतासौ
भिन्नो निवेद्यमिदमित्यनुशिष्य विप्रम् । एकत्र न स्थितिरपि त्रसतां शुभेति
पाञ्चालदेशमभिचेलुरमी कुमाराः ॥ ५९॥ १. 'दृष्टः' ख. २. 'पराः' ख. ३. इवार्थको वाकारः. ४. क्रम. ५. 'संगसेऽथ' ख.
सामना
Aho! Shrutgyanam