________________
५४
काव्यमाला |
इत्यट्टहासमिव यं गृहवंशदा है
वह्निश्वकार मिलितस्तत एव लोकः ॥ ४० ॥
धिक्त्वां मुखं मखभुजां धिगपि द्विजास्त्वामर्चन्ति धिक्च शुचितां तव येन दग्धः । दैत्यावतारधृतराष्ट्रसुतप्रियार्थं
देवद्विजप्रियतमश्च शुचिश्च राजा ॥ ४१ ॥
इत्यात्मनः किल कलङ्कमलीकमेव
यच्छन्तमुच्छ लितशोकमतीव लोकम् । कान्त्या हसन्निव शिखी पथि गच्छतस्ता
नालोकताम्बर निखातशिखातरङ्गः ॥ ४२ ॥ ( युग्मम् )
सौभाग्यभाग्यशुचितादिगुणैर्न केषां
नेत्रप्रियाः समभवन्भुवि पाण्डवास्ते ।
तद्दाहनिश्वयवशादिति नागराणां
नेत्रैरमोचि जलमग्निशमाय मन्ये ॥ ४३ ॥
हा धर्म कर्मपर हा निजबान्धवैकप्राकार हा कलशयोनिकुलैकधुर्य । हा रूपसंभ्रमनिधी व गता भवन्तो
लोकारवैरिति निशाप्यसुखाद्विलिल्ये ॥ ४४ ॥ दुर्योधनस्य सुहृदेष युधिष्ठिरादिव्यापादने व्यवसितोऽयमिति क्रुधार्तः ।
प्रातः प्रदग्धवपुषोऽपि पुरोचनस्य लोकः कपालमपिषदृढपादघातैः ॥ ४१ ॥ तां वीक्ष्य पञ्चतनयां च पुरो निषादीं चक्रन्द मातृयुतवीरधियैव लोकः । तच्चाङ्घ्रिचारितरजः प्रसरैः सुरङ्गा
द्वारं चकार खनकः स लसन्नलक्ष्यम् ॥ ४६ ॥
Aho! Shrutgyanam