________________
१ आदिपर्व - ४ सर्गः ]
बालभारतम् ।
गते दत्ताङ्गजे तत्र कलत्रे तोषदुःखभाक् । अभूद्भूपो द्वितीयेन्दुमुचि भानौ यथा जनः ॥ ५० ॥ रिपुकालेन बालेन सह साहसिनामुना । विरराज तदा राजा दिनेनेव दिनेश्वरः ॥ ११ ॥ न्यस्य भारं भुवस्तस्य भुजे भूमिभुजां वरः । विष्णुः शेष इवाशेषमेष चिक्रीड केलिभिः ॥ १२ ॥ पुरा वशी वसुर्नाम चेदिपो मृगयां गतः । वीर्य मुमोच गिरिकां स्मरन्नृतुमतीं प्रियाम् ॥ १३ ॥ श्येनः पत्रपुटीबद्धमेतद्वेतो नृपाज्ञया ।
:
गृहीत्वा गिरिकाहेतोरुत्पपात विहंगमः ॥ ५४ ॥ श्येनान्येन रुद्धस्य योद्धुं तस्य पलभ्रमात् । मुखतः पतिता रेतःपुटी सा यमुनाम्बुनि ॥ ५५ ॥ अद्रिकाख्या तिमीभूता पद्मभूशापतोऽप्सराः । तदेत्य दूरतो रेतः पपौ पुट्याः परिच्युतम् || १६ || तिमिस्त्री सान्यदा दाशैर्जानाकृष्य दारिता । तैः प्रापि तत्र तद्वीजभवं पुंस्त्रीशिशुद्वयम् ॥ १७ ॥ शापान्मुक्ताथ सा मत्सी देवीभूय दिवं ययौ । अदर्शि वसुभूपाय दाशैस्तन्मिथुनं ततः ॥ १८ ॥ नृपोऽग्रहीत्सुतं योऽभून्मत्स्याहो मत्स्यदेशकृत् । दाशेन्द्रायाद्भागे मत्स्यगन्धां सुतां पुनः ॥ ९९ ॥ नाम्नासौ गन्धकालीति श्रुता सत्यवतीति सा । कलयामास कंदर्पोज्जीवनं यौवनं शनैः ॥ ६० ॥ तीर्थयात्राचरोऽन्येद्युः कालिन्द्याः पुलिने मुनिः । पराशराभिधोऽम्यायाद्बहुभिर्मुनिभिर्वृतः ॥ ६१ ॥ नावोत्तार्य ऋषीनन्यान्खिन्ने स्वपितरि स्थिते । एकं पराशरं सत्यवत्युत्तारयितुं ततः ॥ ६२ ॥ १. 'भूयो' ग. २. 'राट्र' क.
Aho ! Shrutgyanam
३३