SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ १७प्रास्थानिकपर्व-१सर्गः] बालभारतम् । भूपः श्रुत्वेति भीमोक्तिमनावृत्तमुखोऽवदत् । पक्षपातमधत्तैका सुराधिपसुतेऽधिकम् ॥ १३ ॥ (युग्मम्) पतिते सहदेवेऽथ भीमपृष्टोऽभ्यधान्नृपः । अयं धियोऽभिमानेन मेने मोहजडं जगत् ॥ १४ ॥ नेकुले पतिते भीमपृष्टः मापोऽवदत्पुनः । न स्पर्धा रूपदर्पण कन्दर्पेऽप्येष चक्षमे ॥ १५ ॥ जातपातेऽर्जुने वातपुत्रपृष्टो जगौ नृपः । चचाल शिथिलं सैष शूरमानी रणाङ्गणे ॥ १६ ॥ पतितोऽसीति भीमेन पातिनाभिहितस्ततः । भूपोऽभ्यधाबले दो बह्वाशस्य तवाभवत् ॥ १७ ॥ . इत्याक्रमत्परं लोकं धर्मवीरो युधिष्ठिरः। नाक्षिपच्चक्षुरप्येषु पतितेष्वपि बन्धुषु ॥ १८ ॥ शुनैवानुगतो गच्छन्नविलुप्तमतिर्नृप। पुरुहूतं पुरोभूतं रथस्थितमथैक्षत ॥ १९ ॥ देही मत्पुरमेहीति वाग्भङ्गया भाग्यभोग्यया । आहूतः पुरुहूतेन पुरुहूतः क्षिते गौ ॥ २० ॥ नाकमाकलयिष्यामि न विनैवीमुना शुना । धिक्तं यः किल संपत्सु विपत्सेवकमुज्झति ॥ २१॥ वनेऽप्यनुज्झितासक्तिर्मलिनोऽप्यलिनां गणः । सुरमूर्धाधिरोहेऽपि सुमनोभिन मुच्यते ॥ २२ ॥ नैवालिङ्गन्ति गोब्रह्मशिवलिङ्गादिभेदिनः । जाह्नवीसवनालस्या जनमाश्रितमोचिनम् ॥ २३ ॥ एतत्त्यागे व मे धर्मस्तं विना युगतिः कुतः । आस्तां मे तदियं शिक्षा तवापि भ्रंशकारिणी ॥ २४ ॥ १. 'पतिते सहदेवेऽथ' इत्ययं श्लोकः ख-ग-पुस्तकयोः. २. 'नकुले पतिते भीमपृष्टः' इत्ययं श्लोकः ख-ग-पुस्तकयोः. ३. 'स्याभवत्तव' ख-ग. ४. 'क्षिपत्' क. ५. 'वशुनामुना' ख. Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy