________________
१३अनुशासनपर्व-१सर्गः] बालभारतम् ।
४४३ इन्द्राद्यैरपि दुर्जयस्तव वसुः सूनुर्पतः स्वेच्छया
मा रोदीरिति बोधिता मधुजिता निस्पन्दमीनाभवत् ॥ ४९ ॥ आनम्य धूर्नटिजटावलयस्य विश्व
कल्याणपुण्यकैलसस्य जलं त्रिमार्गाम् । आविर्भविष्यदधिकाधिकवीरसंय.
द्भूपः पुरी सहचरैः सहितस्ततोऽगात् ॥ ५० ॥ भेजे श्रीजिनदत्तसूरिसुगुरोरहन्मताहस्थितेः
पादाजभ्रमरोपमानममरो नाम व्रतीन्द्रः कृती। तद्भाषाभुवि बालभारतमहाकाव्येऽनुशास्तिक्रम
श्रेयाश्रीसदनं त्रयोदशमिदं पर्व प्रपेदे शमम् ॥ ५१ ॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रसूरिविरचिते श्रीबालभारतनानि महाकाव्ये वीराङ्केऽनुशासनपर्वणि भीष्मस्वर्गगमनप्रकीर्तनो नामैकचत्वारिंशः सर्गः ।
अनेनैकेन सर्गेण पर्वण्यत्रानुशासने । अनुष्टुभां विनिर्दिष्टा सप्ततिः षड्भिरुत्तरा ॥
समाप्तमिदमनुशासनपर्व।
१. 'वपुः' ख. २. 'निष्पन्द' क. ३. 'कलभस्य' क. ४. 'त्रिमार्गम्' क.
Aho! Shrutgyanam