________________
१३ अनुशासनपर्व - १ सर्गः ] बालभारतम् ।
सर्वज्ञमानी सततोद्यदुद्यज्ज्ञानप्रधानोऽपि स योगिवर्गः । व्योम्नो यदङ्गाष्टमभागभावभाजो न पर्यन्तपदं ददर्श ॥ २९ ॥ ईदृग्विधाः सन्ति न रोणि रोम्णि ब्रह्माण्डपिण्डाः कति यस्य भर्तुः । संभूय तत्तद्गतविष्णुधातृश्रेण्यापि वर्ण्य क्व नु यन्महत्त्वम् ॥ २६ ॥ चक्षुश्चलं चुम्बति यद्यदग्रे लोलं मनः श्लिष्यति यद्यदाशु | वाक्स्वैरिणी यद्यदुपैति तत्तन्मुक्तिप्रदं यन्मयविश्वबोधात् ॥ २७ ॥ यन्मौलिजस्वेदजलप्रवाहनिस्यन्दसंदोहनदैकदेशे । नाभीसरोजस्थित विश्वकर्ता हरिस्त्रिलोकीजठरोऽपि शेते ॥ २८ ॥ स एव देवः परमस्तमांसि महांसि चातीत्य कृतप्रतिष्ठः । इच्छाक्रियाज्ञानकृतप्रेशस्तिलुप्तत्रिलोको जयति त्रिनेत्रः ॥ २९ ॥ इदं वदन्नेव महेशमन्तर्निधाय स ध्यानदृशावतस्थे । रोमाञ्चवद्भिः करसंपुटानि भालेऽन्यधीयन्त युधिष्ठिराद्यैः ॥ ३० ॥ अथो तथोद्यन्महनीयमोहनिशावसाने क्षणजागरूके । जनेऽखिलेऽस्मिन्कृकवाकुवाक्यध्वनिर्धुनीसूनुरिलापमूचे ॥ ३१ ॥ चेतश्चलं गच्छति यत्र यत्र तृणेऽपि तत्तत्कुशला रसेन । ध्यायन्ति तत्कालभवद्भुजंगगङ्गादिशृङ्गारिततत्स्वरूपम् ॥ ३२ ॥ तदीदृगेकैकगुणाश्रितोऽपि कर्मावलीं कर्मकरीं करोति । यस्त्वीदृशाशेषगुणाभिरामः समानधाम्नः परमस्य धाम ॥ ३३ ॥ धर्मज्ञ सत्कर्मनिधे कुकर्महतेषु वंश्येषु वृथाभिशङ्की । तन्मा मुहः पालय भूमिपाल महीमहीनाखिलधर्मकर्मा ॥ ३४ ॥ विपगतं सिन्धुसुतं स्वशिष्यं द्रष्टुं तदा वाक्पतिरागतश्च । नत्वार्थितः कर्मगतीः शरीरशरीरिणोराह च खं गतश्च ॥ ३५ ॥ प्रणम्य भूपेन जगत्स्वरूपं पृष्टस्तदा नाकनदीकुमारः । समग्रमावेदयति स्म वेदश्रुत्यादिविद्यार्णवपारदृश्वा ॥ ३६ ॥
४४१
१. प्रथमद्वितीयपादव्यत्यासः ख पुस्तके. २. 'प्रशस्ते' ख. ३. 'शङ्काम्' क. ४. 'जगत्स्वकृतं ' ख.
५६
Aho ! Shrutgyanam