________________
१३ अनुशासनपर्व - १ सर्गः ] बालभारतम् ।
।
४३९
अनुशासनपर्व |
प्रथमः सर्गः ।
पाराशरः पातु स मां तमालशितिद्युतिर्दैत्यभिदोऽवतारः । वाच्याय विश्वकहिताय देवी वागेव जिह्वाजनि यन्मुखाजे ॥ १ ॥ अथेदमाकर्ण्य धुनीतनूजा जानि रुन्मुद्रितशोकमुद्रः । दीनाननश्रीरकृत प्रलापान्पापानुशङ्की सुकृतस्य सूनुः ॥ २ ॥ अहो जनैः साध्वपि यत्क्रियेत प्रियेतरं वक्ति तदप्यकर्म । राज्यं तु राज्ञां नरकान्तमेव धियां तदर्थेऽपि हैतस्वसार्थम् ॥ ३ ॥ अकर्षि कूर्च नमतः सहर्ष बालेन ताम्बूलरसाय यस्य ।
मया हहा सोऽपि भवान्निजघ्ने पितामहः कामहताशयेन ॥ ४ ॥ द्विषा दर्शन कौतुकाय येनास्त्रविद्यामहमापितो याम् । विग्धिमयाघाति तया स एव पितामहः कामहताशयेन ॥ १ ॥ येनात्मनैवाभरणैर्विभूष्य सर्वाङ्गमुत्सङ्गमवापितोऽहम् ।
क्षिप्तः क्षितौ ही स मया शराङ्कः पितामहः कामहताशयेन ॥ ६ ॥ न मां विना यस्य रतिर्मया स सुरासुरश्रेणिभिरप्यजेयः । हा मर्म पृष्ट्वा निशि घातितोऽह्नि पितामहः कामहताशयेन ॥ ७ ॥ (कुलकम् )
इति प्रलापातुरमतिभागी भागीरथीसूनुरधीशमुर्व्याः । भक्तयुज्ज्वलीभूतमनस्थमातृतरङ्गभङ्गायितवागुवाच ॥ ८ ॥ मा वत्स दावच्छविना विनाशं नयस्व शोकेन विवेकवल्लीः । हन्ता हि न त्वं न मृतिर्न कालो वयं हतास्ते निजकर्मणैव ॥ ९ ॥ मृदार्द्धिपिण्डैरपि कामकृत्यक्षणक्षणान्यान्यशरीरिरूपैः ।
कर्माणि वालैकराणि मुक्तश्रमं रमन्ते वत विश्वजीवैः ॥ १० ॥
सदा सदाचाररते निरस्तकर्मग्रहेऽनन्यसमे तु मर्त्ये । आयुः स्थिरं स्यादभियाति लक्ष्मीः कुलं कलाश्वोज्ज्वलतां भजन्ते ११
१. 'भूतानि' क. २. 'राज्ञां हि राज्यं' ख. ३. 'हित' क. ४. 'भङ्गीयित' क ख.
Aho ! Shrutgyanam