________________
OC
१२शान्तिपर्व-१सर्गः] बालभारतम् ।
यदाज्ञायन्त्रिता वर्णाश्चत्वारोऽप्यर्णवा इव । स्फूर्जन्तोऽपि न मर्यादा मुञ्चन्ते किं स नेश्वरः ॥ ११४ ॥ यदि यज्ञामृतै राजा न वर्षति दिवं प्रति । तत्क्षुधार्ताः सुधाकूपान्दिवि देवाः खनन्ति किम् ॥ ११५ ॥ धराभृति न चेद्धर्मस्तदधर्मभरातुरा । कूर्माद्यैः किं 'हियेतोर्वी दलयन्ती रसातलम् ॥ ११६ ॥ तदेक एव देवः मापतिधर्मगतिस्थितः । भाति त्रिजगदाधारः समाहारः सुरश्रियाम् ॥ ११७ ॥ लोकंपृणगुणोऽप्युच्चैर्नृपः क्रूरपरिच्छदः । सेवितुं शक्यते केन ससर्प इव चन्दनः ॥ ११८ ॥ तीर्थाधिकारिभिरिव स्फीतलोभैनियोगिभिः । पीड्यमानाः प्रजास्तीर्थमिव भूपं शपन्ति च ॥ ११९ ॥ नृपश्चारुपरीवारोऽप्यचारुचरितः स्वयम् । जनेन त्यज्यते दूरं मणिवान्फणवानिव ॥ १२० ॥ खाचारपरिवारस्य सदाचारस्य भूपतेः । राज्ययामिकतां याति धर्मस्त्रिजगदर्चितः ॥ १२१ ॥ क्रियासु विफलाः सैन्यक्रमविक्रमबुद्धयः । न स्यादात्मेव भूपानां पुरोधा यदि धर्मवित् ॥ १२२ ॥ अरक्तेभ्योऽपि रक्तेषु कुमुदेभ्योऽम्बुजेष्विव । श्रियं संचारयन्भूपः प्रतापी भाति भानुवत् ॥ १२३ ॥ प्रतापस्य प्रकाशेन दण्डस्यालम्बनेन च । कलिध्वान्तेऽपि भूपानां वृद्धो धर्मः सुखं चरेत् ॥ १२४ ॥ प्राप्तप्रतापतपना विश्वं प्रणिधिभिर्नृपाः । दूरप्रचारैर्गृह्णन्ति गूढैदृश इवांशुभिः ॥ १२५ ॥ अलक्ष्यः क्ष्माभुजां मन्त्रो विश्वोद्धारक्षयक्षमः ।
सत्ता यस्येश्वरस्येव क्रिययैवानुमीयते ॥ १२६ ॥ १. ध्रियेतो' ख. २. 'स्थितिः' क.
उWW९ ॥
Aho ! Shrutgyanam