________________
१२शान्तिपर्व-१सर्गः)
बालभारतम् ।
व्यधादिहान्तरे शान्तमनाः शान्तनवः स्तवम् । ऋषिवातवृतः शौरेर्भावपूजामैनःस्रजम् ॥ ८८ ॥ नमः स्वयमविश्वाय विश्वज्ञानाय विष्णवे । सर्वाङ्गलीनसर्वाङ्गसहस्राद्भुततेजसे ॥ ८९॥ वाससा वासरेणेव निशयेव तनुत्विषा । शश्वदासेवितं सेवे हरिं कालमिवाङ्गिनम् ॥ ९ ॥ न्यक्पातिनो भवाम्भोधौ जन्तवोऽम्बुदबिन्दुवत् । मुक्ता भवन्ति यद्भक्तिशुक्तिलीनाः श्रयामि तम् ॥ ९१ ॥ यस्या विभक्तिरूपैव भक्ति वत्सु मुक्तिदा । श्रीविश्वरूपः साक्षान्मे सोऽस्तु नेत्रामृताञ्जनम् ॥ ९२ ॥ इति स्तुत्वा हृदा नत्वा ध्यायन्सद्योऽप्यलोकत । भीष्मः प्रमोदरोमाञ्चदीनभीष्मशरो हरिम् ॥ ९३ ॥ अथ श्रीकेशवस्तेऽपि भूपभीमार्जुनादयः । रथादुत्तीर्य गाङ्गेयमानम्य पुरतोऽविशत् ॥ ९४ ॥ अथ व्यथातुरं भीष्मं दृशालिङ्गय हरि गौ। कच्चित्ते न शर्भिन्नं ब्रह्मज्ञानमयं वपुः ॥ ९५ ॥ श्रीविश्वरूप भगवन्भवल्लयमयात्मनाम् । का वज्रबाणपर्यङ्कहंसतूलीकयोभिदा ॥ ९६ ॥ इति भाषिणि भीष्मेऽथ केशवः माह साहसम् । त्वां वहन्ती मही मन्ये द्यामिन्द्राढ्यां मुदा हसेत् ॥ ९७ ॥ त्वयि बाणार्दिते तप्तमनुद्भूतरति कचित् । धार्मि बोधय धर्मज्ञ धर्मोक्या स्वयमव्यथः ॥ ९८ ॥ क्षीरोदशायी भगवानित्युक्त्वा गरुडध्वजः । परामृतकलावृष्ट्या दृष्ट्या तं निर्व्यथं व्यधात् ॥ ९९ ॥ तादृक्संविद्रतिस्थानप्रसत्तिश्लाघयोरथ ।
पुष्पवृष्टिस्तयोमूनि देवर्षिस्तुतयोरभूत् ॥ १०० ॥ १. 'नव' ख. २. मुक्तिभाजो मुक्ताफलानि च.
Aho! Shrutgyanam