________________
४२९
१२शान्तिपर्व-१सर्गः] बालभारतम् ।
युधि यः क्षत्रधर्मस्थो हन्ति वा हन्यतेऽथवा । गीर्वाणैरपि पूज्यते तो पुण्यौ पुष्पवृष्टिभिः ॥ ६३ ॥ अपापस्तदसि क्ष्माप प्रसन्नः पालयावनिम् । यदि मिथ्याभिशङ्कास्ति वाहमेधं कुरुष्व तत् ॥ ६४ ॥ अभिनन्द्य निजं राज्यमानन्द्य प्रकृतीन्कृती। पश्य पुण्याय गाङ्गेयं शर शय्याचरं गुरुम् ॥ ६५ ॥ इति कृष्णमुनीन्द्रेण श्रीकृष्णेन च बोधितः ।। पुरेऽविशत्पुरस्कृत्य धृतराष्ट्र युधिष्ठिरः ॥ ६६ ॥ महेन महता भूपः स विभूष्य सभाभुवम् । द्विजान्धौम्यपुरस्कारादपूजयदुपस्थितान् ।। ६७ ॥ दुर्योधनसुहृत्तत्र त्रिदण्डिमुनिवेषभाक् । मणिरूप इवाङ्गारश्चार्वाकः कौणपोऽविशत् ॥ ६८ ॥ पापाकारं कुलागारं धिक्त्वामित्यादि भूपतौ । वचोऽभूत्तन्मुखाचित्रं चन्द्रादिव हलाहलम् ॥ ६९ ॥ द्विजा विज्ञाय राज्ञे च तं निवेद्य क्रुधादहन् । हुंकारप्रोत्थितेनाग्निदैवतेनेव हृज्जुषा ॥ ७० ॥ शक्यो हन्तुं हरेणापि नैष द्विजरुषं विना । इत्युक्त्वा तद्वधप्रीतो हरिरप्रीणयन्नृपम् ॥ ७१ ॥ तादृग्युद्धोत्थबाह्यान्तस्तापमण्डलखण्डनम् .। अथाभिषेकं भूपस्य चक्रुस्तीर्थोदकैर्द्विजाः ॥ ७२ ॥ स पूर्वभूमिभृद्भद्रासनवर्ती श्रितः श्रिया । राजा विराजयामास विश्वं विश्वंभरातलम् ॥ ७३ ॥ शिवं शक्क्यान्वितमिव प्रत्यक्षं धाम्नि धर्मजः । धृतराष्ट्रं वधूयुक्तममन्यत सुहृन्मतः ॥ ७४ ॥ यौवराज्ये मरुत्पुत्रं विदुरं मन्त्रकर्मणि ।
धनंजयं जयोद्योगे संजयं व्ययचिन्तने ॥ ७९ ॥ १. 'त्रिदण्डी' ख.
Aho! Shrutgyanam