________________
१० सौप्तिकपर्व - १ सर्गः ]
बालभारतम् ।
व्यासाश्रमं गताः सर्वे ततो द्रौणिमलोकयत् । धृताक्तवाससं नीराभ्यासस्थं व्याससंनिधौ ॥ ६४ ॥ तं निरीक्ष्य किरीट्यग्रजन्माधावत्कुधान्धितः । रे क्रूर रे ब्रह्मबन्धो तिष्ठ तिष्ठेति च ब्रुवन् ॥ ६५ ॥ द्रौणिर्भयमद्रौणिर्वीक्ष्य तं युद्धदीक्षितम् । निरस्त्रो नीरथोऽगृह्णादिषीकां वामपाणिना ॥ ६६ ॥ तत्र ब्रह्मशिरोत्रस्य मन्त्रन्यासं विधाय सः । एनामपाण्डवादमुक्तवानाशु मुक्तवान् ॥ ६७ ॥ अथाभ्यधान्मधुध्वंसी बिभ्यद्वीभत्सुमुत्सुकः । पार्थ पार्थ यतस्वाशु मा स्याद्विश्वमपाण्डवम् ॥ ६८ ॥ रथादथावतीर्यैन्द्रिः कृतदेवगुरुस्मृतिः ।
४०७
स्वस्त्यस्तु गुरुपुत्राय सहैभिः पाण्डुसूनुभिः ॥ ६९ ॥ उदग्रमिदमेवास्त्रमस्त्रेणानेन शाम्यताम् । इत्युक्त्वातिशुचिर्भूत्वा परमास्त्रमयोजयत् ॥ ७० ॥ ( युग्मम् ) ज्वालालीजटिले तत्र ज्वलितेऽद्वये दिवि । तदुत्तुङ्गस्फुलिङ्गान्तः पतङ्गोऽपि न लक्षितः ॥ ७१ ॥ क्षयेऽपि द्वादशैव स्युरर्काः किं तेऽद्य कोटिशः । तयोः स्फुलिङ्गानालोक्य रुद्राद्यैरित्यचिन्त्यता ॥ ७२ ॥ रौद्रौर्वान्निसमे शस्त्रे ते विलोक्य त्रिलोक्यपि । कल्पान्तशङ्कयेवाप कम्पसंपातमद्भुतम् ॥ ७३ ॥ वीक्ष्यात्म मित्रमत्राग्निं दूरतः क्रूरतां गतम् । क्रूरतां वायवोऽप्याशु कर्करीकृतपर्वताः ॥ ७४ ॥ और्वाग्निमिव खे वीक्ष्य तदस्त्रद्वयजं महः । उच्चकैरुच्चचालाब्धिः क्रोडीकर्तुमिवाशु तत् ॥ ७९ ॥ क्षुम्यदब्धित्रुटच्छैलस्फुटद्ब्रह्माण्डखण्डभूः । इहाप्रसरे क्रूरः कोऽपि कोलाहलोऽभवत् ॥ ७६ ॥ १. 'भयभ्रमद्रौणि' ख.
Aho ! Shrutgyanam