________________
३९२
काव्यमाला । तदा मदाढ्यो भीमेन भवत्सूनुः सुदर्शनः । मरुन्मृगाक्षीवक्षोजस्तम्बे स्तम्बेरमीकृतः ॥ ६२ ॥ पृष्ठघातं छलात्कुर्वन्सबलः सुबलात्मजः । अदृष्टत्रणवजन्ने सहदेवेन शस्त्रिणा ॥ ६३ ॥ गृहीतां द्रोणतो युद्धविद्यामुद्दयोतयन्नयम् । उलूकं शकुनेः सूनुं ससैन्यौघमपातयत् ॥ ६४ ॥ धृष्टद्युम्नगिरा हन्तुमुद्यतादथ सात्यकः । प्रत्यक्षीभूय मां व्यासो विश्वदर्शी व्यमोचयत् ॥६५॥ अदर्शि द्रौणिहार्दिक्यकृपशेषान्मया रणात् । एकाकी पद्गतिनिर्यन्नेकादशचमूपतिः ॥ ६६ ॥ स मां हीणोऽवदत्कथ्यं मत्पितुर्यत्तवात्मजः । हतबन्धुसुहृत्सैन्यो दुःस्थः श्रान्तो ह्रदेऽविशत् ॥ ६७ ॥ इत्युक्त्वा मायया सैष दैत्यानामब्धिवासिनाम् । संस्तभ्याम्भो ह्रद विक्षन्संध्यारविरिवार्णवे ॥ ६८ ॥ क राजेति कृपद्रौणिहार्दिक्यै रथिमिस्त्रिभिः । भ्रमद्भिः कुरुवर्षान्तमद्गिरासौ हृदे श्रितः ॥ ६९ ॥ युधिष्ठिराज्ञया राजन्युयुत्सुस्त्वत्सुतस्तदा । दारान्दुर्योधनादीनामादाय प्रस्थितः पुरम् ॥ ७० ॥ तदा रथिसहस्राभ्यामयुतेनाभिचारिणाम् । मातङ्गसप्तशत्याश्च सहस्त्रैः पञ्चभिर्वृतः ॥ ७१ ॥ युधिष्ठिरश्चरान्दिक्षु प्रैषीचिन्ताभरातुरः । युद्धा दुर्योधनः क्वागाद्वैरमूलमितीक्षितुम् ॥ ७२ ॥ हार्दिक्याद्याः शनैरूचुस्तदा हदगतं नृपम् । वीरोत्तिष्ठ सहास्माभिः शत्रूञ्जयमुखाञ्जय ॥ ७३ ॥ तान्प्रशंसन्नथाचष्ट क्ष्माकान्तः श्रान्तवाहनः । विश्राम्यन्तु भवन्तोऽपि प्रातर्वध्या विरोधिनः ॥ ७४ ॥ १. 'तदा कु' का 'बला' ख.
Aho! Shrutgyanam .