________________
राहतुः ।
७द्रोणपर्व-३सर्गः] बालभारतम् । व्ययितास्त्रभरः परः समीके द्रुतमुन्मूल्य रदं रिपुद्विपस्य । प्रेसरन्प्रसभं बलेन दृष्टो मुशलीवाद्भुतभीतिभङ्गुरेण ॥ १३ ॥ खरशक्तिरपूर्णमण्डलोऽपि प्रसभं पूर्णतरेऽपि नाशहेतुः । सकलेन्दुसमाभटास्यकूटा द्विषतां विक्षिपिरेऽम्बरेऽर्धचन्द्रैः ॥ १४ ॥ युधि युद्धविधि व्यधुर्गतास्त्राः पतितोत्पाटितमुक्तमौलिगोलैः । दृढमुष्टिहतै रदैर्नखैश्च स्फुटरामायणवीरवद्भटेन्द्राः ॥ ५५ ॥
इतश्च प्रचलन्पार्थरथो रुद्धपुरःपथः । न तथास्खलि खेलद्भिः परैः परिहतैर्यथा ॥ १६ ॥ पत्रिणां पार्थमुक्तानां गव्यूत्या पुरतः पतन् । स रथस्त्वरयाश्चर्य चक्रे केतुकपेरपि ॥ १७ ॥ बिन्दानुबिन्दावावन्त्यौ व्यथयन्तौ शिलीमुखैः । रयादपातयत्पार्थस्तौ मधुच्छन्त्रलीलया ॥ १८ ॥ पाययाम्बु हयान्खिन्नान्विशल्पीकुरु शल्पितान् । इत्युक्त्वाथ हरिं जिष्णुरुत्ततार द्रुतं रथात् ॥ ५९॥ क्षणेऽस्मिन्नेष धावन्तीरुत्तालाः शरमालया। रुरोध योधपटलीलयाब्धिरिवापगाः ॥ ६० ॥ निःशङ्ककङ्कपत्रालिमयं मन्त्रालयं व्यधात् । तदन्तरप्यसौ वारि शरदारितभूमिजम् ॥ ६१॥ तत्राथ पाययित्वा च तारयित्वा च वाजिनः । स्पर्शेन निर्बणीकृत्य कृष्णः पुनरयोजयत् ॥ १२ ॥ अथाधिरोहिणौ कृष्णौ द्विगुणोपरया हयाः। ऊहुः कॅम्बूद्धशिरसौ प्रागुत्थानेऽप्यकम्पिनौ ॥ ६३ ॥ शिल्पमल्पावशेषेऽह्नि पार्थः प्रगटयत्परम् ।
कल्पान्तवात इव कान्भूभृतो न व्यकम्पयत् ॥ ६४ ॥ १. 'प्रसभं प्रसरन्' ख. २. 'पर' ख. ३. 'सारयित्वा' ख-ग. ४. 'कन्द्रेन्द्र' क. ५. 'कल्पान्ते ख.
Aho!-Shrutgyanam