________________
२७८
काव्यमाला।
अथ विजित्य तनूषु चमूभृतां सपदि धर्मजवारिलवव्रजम् । प्रसृमरः पवनः म सरस्वतीजलकणप्रसरं प्रतितिष्ठति ॥ ४ ॥ नलिनरेणुलवैः कनकद्युतिः सृमरसौरभषट्पदगीतिभाक् । मधुरशीतगुणाम्बुकणैः सरिन्मरुदभूद्दयितो बलयोषिताम् ॥५॥ अपि सरित्परिरम्भभवं नवोदकलवं परिरभ्य समीरणम् । अननि मीलितहग्यदियं चमूस्तदबला खलु कामितकामिनी ॥ ६ ॥ मृदुसमीरविलासविकम्पिनी कुसुमसात्त्विकवारिकणैर्वृताम् । अभजदाशु रसेन सरस्वतीतटवनीमवनीशचमूचयः ॥ ७ ॥ जलनिधौ निहितो वडवानलः पविमचिक्षिपदेव मदाय नः । इति विरञ्चिसुतां परितो बलच्छलकुलाद्रिकुलानि सिषेविरे ॥ ८ ॥ अविदितोद्धतिरोपणकं नृपैः कथमपि छुपथेन किलागतम् । समवलोकि यथाक्रमरोपितं कुतुकिभिः स्थलमण्डलमग्रतः ॥ ९ ॥ सुकृतसूनुनिकेतचलद्भुजाञ्चलभुजाकथितेष्विव वेश्मसु । विनिहितेषु यथाक्रममक्रमान्निजनिजेषु ययुर्जगतीभुजः ॥ १० ॥ कमपि सारथिरात्मनृपालयं पथिषु पृच्छति यावदधिभ्रमः । निजगृहाङ्गणमेव रथो हयैः सपदि तावदनायि गतभ्रमैः ॥ ११ ॥ गजतुरङ्गनरत्रयपीठिकावलयिमूलभुवः स्थलसंचयाः । रुरुचिरे परितो नृपसेविताः सुरगृहा इव दिग्विजयश्रियाम् ॥ १२ ॥ शिरसि ताडकृतोऽपि निषादिनः समधिरोपयति स्म यथा नमन् । इह तथैव रयाद्रुदतीतरत्करिपतिमहतां चरितं नुमः ॥ १३ ॥ स्फुरितमाप सपल्ययतो हयः पथि यथा न निरस्तभरस्तथा । सहजसौम्यभृतो हि पराक्रमे सति महांसि वहन्ति मनस्विनः ॥ १४ ॥ स्थिरपदा निजसारथिसंज्ञया रथिनि पार्श्वगते रथवाजिनः । बहुमहीगमनेऽप्यखिदस्तथा प्रथमयुक्तमिव स्वमबोधिषुः ॥ १५ ॥ समधिरोहति यन्त्रभरे यथा रवभरं रवणा विधुरं व्यधुः । . अवतरत्यपि हन्त तथैव ते क्व मतिरूवमुखस्य खलूचिता ॥ १६ ॥ १. 'मपिक्षिपदेव' क-ख. २. 'समवरोपितयन्त्र' क.
Aho! Shrutgyanam