________________
२३८
काव्यमाला |
वं भवेदिति गिरं तमब्रवीद्दैवं विरुद्धमवबुध्य सिन्धुभूः ।
यत्ता भवन्तु सुभटा घटामहे येनामुना समिति सव्यसाचिना ॥ ९२ ॥ किं तु व्रजन्तु नगराय गोत्रजाः क्षोणीश सैन्य चतुरङ्गरक्षिताः । पूर्वं हि विग्रहनिमित्तवस्तुनः शंसन्ति रक्षणविधिं विचक्षणाः ॥ ९३ ॥ अन्येन गच्छतु वृतश्चमूचतुर्भागेन नागनगरं नरेश्वरः ।
।
येनैष एव विजयो रणक्षणे यत्स्वामिरक्षणविधिर्यथा तथा ॥ ९४ ॥ द्रोणादिभिस्तु सुभटैर्युतोऽर्जुनं क्ष्माभृद्धुनीरयमिवैष धारये । इत्युक्तवत्यथ पितामहे तथा चक्रे भयातुरतया नृपो रयात् ॥ ९९ ॥ वेगाद्व्रजन्तमथ तं पृथङ्करः प्रेक्ष्योत्तरं प्रहसितोत्तरं जगौ । संगृह्य याति सुरभीः सभीरसौ यातेऽत्र मेऽत्र समरेण किं फलम् ॥ ९६ ॥ एनं प्रति त्वरयतूत्तुरंगमान्दूरं कुरङ्ग इव मापलापताम् । श्रुत्वेत्यथ त्वरितमुत्तरो रिपुं पक्षान्वितैरिव हयैरुपाद्रवत् ॥ ९७ ॥ प्राप्तोऽथ सत्वरखुरैस्तुरंगमैर्वेगेन संगतिमुपागते रथे । ते तत्र सन्तमिदमब्रवीदथो दुर्योधनं हठधनो धनंजयः ॥ ९८ ॥ भोस्तिष्ठ तिष्ठ निभृतं भवादृशैः कुल्यैः कलङ्कविधुरः कृतो विधुः । पूर्व जहार सुरभीर्भवान्हहा रुद्धो मयाधम पलायतेऽधुना ॥ ९९ ॥ चापं गृहाण विगृहाण विग्रहिन्साकं मया समय एष दुर्लभः । एकोऽस्मि संगरनियुक्त संगरो यूयं पुनः शतमितो धनुर्धराः ॥ १०० ॥ निर्भर्त्सकैरिति गिरां भरै रयादुत्साहकैरपि तदा कुरूद्वहः । युद्धाय नैव वलते स्म तत्क्रुधा पार्थो रथस्य रयतो गतोऽग्रतः ॥ १०१ ॥ वामे विमुच्य पृतनामभिद्रुतं दुर्योधनाय विनिभालय फाल्गुनम् । भीष्मादिभिः सपदि पर्यवारितैर्व्यावर्तितत्वरितवाहनैर्नृपः ॥ १०२ ॥ एकत्र तत्र मिलितां पताकिनीं दृष्ट्वा प्रहृष्टहृदयो धनंजयः । आकम्पितक्षुभित देवदानवं द्राग्देवदत्तमथ पर्यपूरयत् ॥ १०३ ॥ ध्वानैर्ध्वजे कपिवरस्य तत्परीवारप्रभूततरभूतबूत्कृतैः । तैर्देवदत्तनिनदैश्च विस्फुटब्रह्माण्डमण्डलमशङ्कि विष्टपैः ॥ १०४॥
१. 'नूनं' क. २. 'भो तिष्ठ' क-ग.
Aho ! Shrutgyanam