________________
१६९
२सभापर्व-५सर्गः] बालभारतम् ।
अष्टापदाष्टापदमूर्ध्नि पात्यमानौ समुत्पाट्य मुहुस्तदाक्षौ। युधिष्ठिरश्रीहरणे प्रवृत्तौ वृत्तौ स्वनै स्तेनतुरट्टहासम् ॥ ११ ॥ गृहान्तरारोपणसौरबुध्नष्टात्कारभारप्रतिशब्ददम्भात् । भविष्यदात्मप्रभुमृत्युदुःखाच्चकार हाकारमहो सभापि ॥ १२ ॥ सारा दधुः केऽपि कुभूपमृत्युध्यानैकतानाः किल कालिमानम् । भेजुः पृथासूनुविभूतिकृष्टिध्यानेन मन्येऽरुणरूपमन्ये ॥ १३ ॥ उत्थापितारोपितबद्धमुक्तैः श्यामैश्च रक्तैश्च नृपैरिवैतौ । सारैर्विचिक्रीडतुरेकचित्तौ गमं चरेऽप्यादधतावलक्षम् ॥ १४ ॥ हाकारधिक्कारपरेषु धर्मपुष्टेषु दुष्टेषु च हर्षितेषु ।। यद्यत्पृथा भूः पणतां निनाय जिगाय तत्तच्छकुनिश्छलज्ञः ॥ १५ ॥ पराजितीभूतसमस्तराज्यभरोऽप्यसंभावितरोषदोषः । पणेन बन्धूनपि हारयित्वा स्वं हारयामास स धर्मसूनुः ॥ १६ ॥ सा विद्यतेऽद्यापि तवैव कृष्णा द्यूतं तया क्लृप्तपणं विधेहि । अपीति पार्थ प्रति धार्तराष्ट्र वदत्यमर्षी विदुरो जगाद ॥ १७ ॥ रे रेऽन्धसूनोऽन्धविवेक केयं क्रूरा कुलोच्छेदकरी मतिस्ते । खमृत्यवे केसरिणोऽभिघातरमून्किमुत्थापयसि प्रसुप्तान् ॥ १८ ॥ जन्मक्षणोत्थक्षतजास्थिवृष्ट्या ज्ञातोऽसि पापान्धतमेन पित्रा । न जातमात्रोऽपि हतोऽसि हा धिक्शशाङ्कवंशैकघुणस्त्वमेकः ॥१९॥ कालत्रयज्ञः स्वकुले भवन्तं मत्वा भविष्यन्तमतिप्रमत्तम् । जगत्रयप्रीतिकरो बभार प्रागेव देवः कलुषत्वमन्तः ॥ २० ॥ रे कौरवाः क्रूरविपाकमन्तर्दुष्टत्रणं वो मरणाय जातम् । उन्मूल्यतामेष विशेषशस्त्रकर्मप्रगल्भैर्यदि जीवितेच्छा ॥ २१ ॥ इत्यालपत्यालमिवालमस्मिन्हसन्निवानन्दवशंवदात्मा । पणीकृता धर्मसुतेन कृष्णा जितेयमेवं शकुनिर्बभाषे ॥ २२ ॥ दासीयमासीदिति धार्तराष्ट्रः खं प्रातिकामाख्यमयुक्त सूतम् । आनेतुमेतां द्रुपदस्य पुत्री कुलक्षयायेव विषस्य वल्लिम् ॥ २३ ॥ १. 'समुन्नत्य क. २. 'साधु' क. ३. 'वाचष्ट' ख-ग.
२२
Aho! Shrutgyanam .