________________
प्रथम विमर्शः
भत्र लग्नस्य तनुभावसंज्ञा इष्टनरादेस्तनुरेतदनुसारेण विचार्येत्यर्थः । ततोऽप्रदक्षिणमे. कादशस्थानेषु द्वितीयादिस्थानस्थराशीनां क्रमाद् द्रव्यभाव २ भ्रातृभाव ३ बन्धुभावादिसंज्ञाः इष्टस्य पुंसो द्रव्यभ्रात्रादिकमेषामनुसारेण
विचार्य तथाहि - “यो यो भावः स्वामिदृष्टो युतोवा, सौम्यैर्वा स्यात्तस्य तस्यास्ति वृद्धिः। पापैरेवं तस्य तस्यास्ति हानिनिर्देटच्या पृच्छतां जन्मतो वा " ॥१॥ _ नवरं षष्ठेऽरिभावे यथा करा अरिभावं प्रन्ति तथा सौम्या अपि घ्नन्त्येव, न तु पुष्णन्ति । व्ययाष्टमयोश्च यथा सौम्या व्ययमृन्यू पुष्णन्ति तथा ऋरा अपि पुष्णन्त्येव, न तु प्रन्ति । अत एवोक्त-"सौम्याः षष्ठेऽरिनाः सर्वे नेष्टा व्ययाष्ट नगा" इति । यवनेश्वरमते तु-" अष्टमे सौम्या आयुर्वृद्धिकरा इति । भ्रातृभावे च भगिन्योऽपि लक्ष्याः । बन्धवः स्वजना बन्धुभ वे माताऽपि । सुतभावे शिष्या अपि । स्त्रीति भार्या । अत्र गमागमाद्यपि । अष्टमे रोगाद्यपि । धर्मभावे क्रमागत विद्याऽचुम्बितविद्याऽचिन्तितधनलाभाद्यपि । दशमेकर्मव्यापारः, अत्र पिताभाग्यमाशश्वर्यायपि च । लाभे नष्टलाभाद्यपि । व्यये सदसद्वययादि च विचार्याणि (य) द्वादशेति यथा लग्नादारभ्य द्वादश भावा उक्तास्तथा चन्द्रादपि ज्ञेया:, लग्नचन्द्रयोर्मध्ये यस्तदानीं बलवान् स्यात्तस्माद्वादश भावा विचार्यन्त इत्याम्नायः ॥ भावानां नामान्तराण्याह
सुहृन्मन्दिरपातालहिबुकाम्बुसुखाभिधम् ।.
चतुर्थमष्टमं छिद्रं चतुरस्त्रे उभे पुनः ॥ १४ ॥ व्याख्या-सुहृन्मन्दिरेति मित्रभवनं गृहभवनं रसातलमित्यादिपर्याया अप्यत्र व्यवहर्तव्याः । एवमग्रेऽपि सर्वत्र पूर्वोक्तावादिद्वादशभावनामस्वपि च वाच्यं । चतुर्थ मिति स्थानमिति शेषः । छिद्रमिति छिद्रशब्दः क्षतपापपर्यायः । अष्टमं मृत्युस्थानमनायुःसंज्ञमपि ॥
Aho! Shrutgyanam