________________
प्रथम विमर्श:
" सूर्यभाद्गुणयेन्दोभ सप्तभिर्भागमाहर |
,,
शून्यं द्वौ वा न शेषों चेदाडलो नास्ति निश्चितम् ॥ १ ॥ अयं च योगः प्रायः सुरगिरिदिशि व्याप्रियते, एतद्गुणने च नवमो रवियोगो यात्रादौ नेष्ट इत्यागतम् ॥
अथ प्रत्यभाविन उपयोगानाह-
उपयोगास्त्वश्वि१ मृगा२श्लेषा ३ कर ४ मैत्र ५ वैश्व ६ वारुणतः ७ । व्यादिषु तद्दिनभप्रमिताः क्रमतोऽभिधानफलाः ||६४ ||
व्याख्या - ख्यादिष्विति रविवारेऽश्विनीतो गण्यं, सोमवारे मृगशीर्षात्, भौमवारेऽश्लेषात इत्यादि । अनामिजिगण्यते । एवं च गणने इष्टदिनभ यावतिथं स्यात्तावतिथस्तहिने उपयोगः || तन्नामाम्याह
dos
आनन्दः १ कालदंडश्च२ प्राजापत्यः ३ सुरोत्तमः ४ । सौम्यो५ ध्वांक्षो६ ध्वजश्चैव७ श्रीवत्सो' वज्र ९ मुद्गरौ १० ॥ ६५ ॥
छत्रं ११ मित्रं १२ मनोज्ञश्च १३ कंपो१४ लुंपक १५ एव च । प्रवासो १६ मरणं १७ व्याधिः १८
सिद्धिः १९ शूला २० मृतौ २१ तथा ॥ ६६ ॥ मुसलो२२गज२३मातङ्गौ २४
राक्षसो२५se चर: २६ स्थिरः २७ ।
वर्धमान २८ श्वेति नाम्ना स्युरष्टाविंशतिः क्रमात् ॥ ६७ ॥
Aho! Shrutgyanam