________________
आरम्भ-सिद्धिः
एवं मध्यमे तिथिमाने भद्रामानमपि मध्यं । घटी च षष्टि ६० पलमाना यदि त्रिंशता ३० भज्यते तदा पलद्वयं लभ्यते. ततो यथोक्त त्रिंशद् घटीके भद्रामाने यावत्यो यावत्यो घट्यो यस्मिन् यस्मिन्नने सन्ति तावन्ति तावन्ति पलद्वयानि घटीं घटीं प्रति तस्मिंस्तस्मिन्नने हीयन्ते वर्धन्ते वा । कथं ? यदा त्रिशन्मध्यादेका घटी न्यूना एकोनत्रिंशद्घटीका भद्रेत्यर्थः तदा पञ्चघटीमिते भद्रावक्त्रे पञ्चपलद्वयानि, कोर्थः ? दश पलानि न्यूनीभूतानि, दशपलैन्यूँनाः पञ्च घट्यो विष्टेर्वक्त्रमिति भावः । एवं द्विघटीमाने भद्रागले द्वे पलद्वये न्यूने जाते पलचतुष्केण ऊनं घटीद्वयं विष्टेनलमिति भावः । एवं हृदये दश घट्यो दशभिः पलद्वयैर्विंशति २० पलरूपैन्यूनाः । एवं नाभौ चतुर्भिः पलद्वयैरष्टपलरूपैन्यूँनं घटी चतुष्कं । एवं कट्यां षड् घट्यः षड्भिः पलद्वयादशपलरूपैन्यूनाः । एवं पुच्छे घटीत्रयं त्रिभिः पलद्वयैः षट्पलरूपैन्यूनमिति । इदं त्रिंशन्मध्यादेकघट्या न्यूनत्वे उक्तं । यदा तु त्रिंशन्मध्यात् द्वे घट्यौ न्यूने अष्टाविंशतिघटीका भद्रा स्यादित्यर्थः तदा एतदेव हानिमानं द्विगुणी कार्य, कथं ? यथा एकघट्या न्यूनया वक्त्रे पञ्च पलद्वयानि दश पलरूपागि न्यूनीभूतानि तथा घटीद्वयन्यूनतया भद्रावक्ने दश पलद्वयानि विंशतिपलरूपाणि न्यूनीभूतानीत्यादि । यदा तु त्रिंशन्मध्याद्घटीत्रयं न्यूनं सप्तविंशतिवटीका भद्रेत्यर्थः तदा तदेव हानिमानं त्रिगुणी कार्य । यथा एकघट्या न्यूनया वक्त्रे पञ्च पलद्वयानि न्यूनानि तथा घटीत्रये न्यूने पञ्चदश १५ पलद्वयानि त्रिंशत् ३० पलरूपाणि न्यूनानीत्यादि । एवं त्रिंशदुपरि एकद्विविघटीवृद्धावपि वाच्यं, नवरं यथा प्राग् न्यूनीभूतानीत्युक्तं तथाऽत्राधिभूतानीति वाच्यं । इदं प्रसङ्गाद्दर्शितम् ॥ भद्राया मुखमेकान्ततस्त्याज्यमित्यतो यात्रादौ यथा सा संमुखी स्यात् तथाह
भद्रेन्द्रा १४ ष्टा ८ श्व ७तिथ्य १५ ब्धिदशे १० शा ११ ग्नि ३ मिते तिथौ । दिग् ८ यामाष्टकयोर्नेष्टा संमुखी पृष्ठतः शुभा ॥१॥
व्याख्या-इन्द्राश्चतुर्दश चतुर्दश्यादितिथ्यष्टके पूर्वाद्यष्टदिक्षु यातां प्रथमा
Aho ! Shrutgyanam