________________
पञ्चम विमर्शः
२२३
विशेषस्तु-" द्वयाद्यैः क्रूरैर्युते चन्द्रे व्यसुः प्रव्रजितः शुभैः । "
इति दैवज्ञवल्लभे ॥ अथ शुक्कराश्रितानावित्यस्य मतान्तरेणापवादमाहपञ्चपञ्चाशमेवांशं जामित्रं परमं परे। अंशादुज्झन्ति लग्नेन्द्रोहितग्रहदूषितम् ॥ २७॥
व्याख्या-अंशादिति लग्नेन्द्वोः सस्कादधिकृतादंशात् पञ्चपञ्चाशमेवांशं । गर्हितग्रहदूषितं सन्तं तत एव हेतोः परमजामित्राख्यं तं दोषं परे उज्झन्तीत्यन्वयः। भावना त्वेवं-यरप्लयो नवांशो लग्नेऽधिकृतस्तत्सङ्ख्यः सप्तमस्थानस्थराश्यशः पञ्चपञ्चाशः स्यात्, इन्दुरपि राशौ यत्सङ्ख्येऽशेऽस्ति तत्सप्तमराशेखावत्सङ्ख्योऽशश्चन्द्राक्रान्तादंशात् पञ्चपञ्चाशः स्यात्, ततो लग्नांशाञ्चन्द्रांशाद्वा पञ्चपञ्चाशेंऽशे चेत्करग्रहोऽस्ति शुक्रो वा तदा परमं जामित्रं । यथा-मेषस्याद्यांशे लग्नं चन्द्रो वा तुलायाश्चाद्येऽशे करग्रहः शुक्रो वेति, मेषस्य द्वितीये चेत्तदा तुलाया अपि द्वितीये, एवं द्वयोरपि तृतीये तुयें चेत्यादि । एतत्त्याज्यमेव । यदुक्तम्" लग्नेन्दुसंयुतादंशात् पञ्चपञ्चाशदंशके ।
ग्रहोऽन्यो यद्यसौ दोषो न गुणैरपि हन्यते ॥ १ ॥" इति दैवज्ञवल्लभे।
यदि तु पञ्चपञ्चाशानन्यूनोऽधिको वा स्यात्तदा स जामित्राख्य एव दोषो न तु परमजा मित्राख्यः । यथा मेषस्य तृतीयेऽशे लग्नमिन्दुर्वा तुलायाश्चाचे द्वितीये वा करग्रहः शुक्रो वा स्थितस्तदा सोंऽशस्त्रिपञ्चाशश्चतुःपञ्चाशो वा स्यात् । यदा च मेषस्यायेंऽश लग्नमिन्दुर्वा तुलायाश्च द्वितीये तृतीये तुर्ये वांशे क्रूरग्रहः शुक्रो वा, तदा स तस्मात् षट्पञ्चाशः सप्तपञ्चाशोऽष्टापञ्चाशो वा स्यादित्यादि । अयं च दोषो नाति दुष्ट इति तन्मतं । बहुमतं चैतत् ॥ प्रतिष्ठायां ग्रहयुतिदृष्टयोः फलमाहस्थापने स्युर्विधौ युक्ते दृष्टे वाऽऽरादिभिः क्रमात् । अग्निभीरऋद्धिरसिद्धार्चा३श्री४पञ्चत्वा५ग्निभीतयः६॥
व्याख्या-स्थापने प्रतिष्ठायां आरेण युते दृष्टे वा चन्द्रेऽग्निभीः ।। बुधेन ऋद्धिः २ । गुरुणा सिद्धार्चा, कोऽर्थः ? प्रतिमा साधिष्टायिका स्यात् " गुरुणा सर्वपूजिता " इति तु दैवज्ञवल्लभे ३ । शुक्रेण श्रीः ४ । शनिना मृत्युः ५ । रविणा त्वग्निभीः ६ । अत्र दृष्टिः सामान्योक्तेऽपि पुष्टा ज्ञेया ॥ भथ सर्वकार्यलग्नानां साधारणानि त्याज्यानि षडभि: श्लोकैराह
Aho ! Shrutgyanam