________________
२००
आरम्भ-सिद्धिः
दिनयोः सन्धिकाले लग्नं न ग्राह्यं । यद्गदाधरः" निवसति मुहूर्त्तकालो महानिशायां च दिनदले यस्मात् । दश पूर्व दश परतस्तस्माद्वाच्चरपलानि ॥ १ ॥"
यत्त केऽप्याहः-दिनस्यापराधैं प्रतिष्ठाविवाहादिलग्नं न स्यात्, अत एवोक्तं गृहप्रवेशाधिकारे--"सौम्येऽयने वासरपूर्वभागे" (वास्तुद्वारे श्लोक ८५) इत्यादि, तदयुक्तमिव विवाहे दिनापराधलग्नस्य सूत्रकारेणैवानुज्ञास्यमानत्वात् । तथा च वक्ष्यति-"विवाहे त्वर्कार्की त्रिरिपुनिधनायेषु शुभदौ” (मिश्रद्वारे श्लोक ३६) न हि खलु विवाहलग्नेऽस्याष्टमस्थत्वमपराह्नं विना सम्भवतीति, परमपराहे प्रतिष्ठादिलग्नग्रहणव्यवहारः प्रायो न दृश्यते, विवाहलग्नं स्वपराह्ने गृह्णन्तः क्वचिद् रश्यन्तेऽपि, तदत्र वृद्धाः प्रमाणम् ॥
जीर्णः शुक्रोऽहानि पञ्च प्रतीच्यां, प्राच्यां बालस्त्रीण्यहानीह हेयः। त्रिघ्नान्येवं तानि दिग्वैपरीत्ये,
पक्षं जीवोऽन्ये तु सप्ताहमाहुः ॥ ४ ॥ व्याख्या-जीर्ण इत्यनेनास्तसूचा अस्तेच्छुः सन्नित्यर्थः । बाल इत्यनेनोदयसूचा नवोदितः सन्नित्यर्थः । विनानीति त्रिगुणानि पञ्चदश दिनानि नव वेत्यर्थः । एवमिति जीर्णो बालश्च क्रमात् । दिग्वैपरीत्य इति, यदि प्राच्यामस्तेच्छुः प्रतीच्यां चोद्गत इति, तदयं पिण्डार्थ:-प्राच्यामुदित शुक्रो बालत्वास्म्यहं त्याज्यः, प्रतीच्यां तु नव दिनानि । प्राच्यामस्तेच्छुः सन् स वृद्धत्वात्
पक्षं त्याज्य:, प्रतीच्यां तु पञ्चाहं । पक्षं जीव इति । गुरुस्तु नवोदितत्वे बालोऽस्ताभिमुखत्वे वृद्धश्च पक्षमेव त्याज्यः । “गुरुरपि व्यहं बालः पञ्चाहं वृद्ध" इत्येके । गुरोस्तु पूर्वास्तपश्चिमोदयौ न स्त: । अन्ये तु (त्विति) सप्ताद्या उभयोर्गुरुशुक्रयोरुभयोरपि दिशोरुदयेऽस्ते च बाल्यं वार्द्धकं च, सप्ताहमेवाहुः । अनयोबाल्ये वार्धके च सति लग्नं न ग्राह्यमिति तात्पर्य । "इयं च बाल्यवार्धककल्पना निर्बलत्वरूपतत्फलज्ञप्त्यर्थमेव कृता, न तु तात्त्विकीति रत्नमालाभाष्ये' । विशेषस्तु" अरिगयनीए वक्त अत्थमिए लग्गरासि निसिनाहे।
अबले रविगुरुसुक्क सामि अदिट्ठ चयह लग्गं ॥ १ . " एते सर्वत्र भङ्गदा लग्नदोषाः ॥
आ. सि. १७. ॥ इति विलमद्वारम् ॥ १० ॥
Aho! Shrutgyanam