SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ आरम्भ-सिद्धिः पूषादितोषाय च पद्मराग १ मुक्ता २ प्रलानि ३ वासगारुडानि ४ । सपुष्परागं ५ कुलिशं ६ च नील ७ गोमेद ८ वैडूर्य ९ मणीन्वहेत ॥ ६९।। व्याख्या-स्पष्टा ॥ तदर्थमेव नानान्याहएलाशिलापद्मकयष्टयुशीरसुराहकश्मीरजशोणपुष्पैः। अर्के विधौ कैरवपञ्चगव्यैः, सशंखशुक्तिस्फटिकेभदानैः। ७०॥ व्याख्या--शिला मनःशिला । यष्टिर्यष्टीमधुराबो देवदारुः । शोणेति रक्तकणवीरपुष्पैरिति । स्नायादितिपदेन त्रिसप्ततितमवृत्तस्थेन सह योजनीयमिदं । भावश्चाय-एतानि जलमध्ये प्रक्षिष्य मंत्रपूर्व स्नानं कार्य रविवारे । एवमग्रेऽपि तत्तद्ग्रहस्य वारोऽनुक्तोऽप्यूह्यः । पञ्चगव्यं चैवं पराशरोक्तम्" कृष्णाया गोमयं मूत्रं नीलायाः कपिलाघृतम् । सुरभेर्दघि शुक्लायास्ताम्रायाः क्षीरमाहरेत् ॥ १ ॥" इभानां दानंः मदवारि ॥ भौमे बलाहिंगुलबिल्वकेसरैमास्या फलिन्याऽरुणपुष्पचन्दनः सुवर्णमुक्तामधुगोमयाक्षतैः, सरोचनामूलफलैर्बुधे पुनः॥७॥ व्याख्या-बलेति बलधान्यं । बिल्वेति बिल्वफलं । केसरो बकुलगुः । मांसी मुरमांसिनाम्नी । फलिनी प्रियंगुः । अरुणपुष्पी जपाकुसुमं । चन्दनं रक्तचन्दनं । मूल फलैरिति नारंगस्येति वसिष्ठः ॥ जीवे सजातिकुसुमैः सितसर्षपयष्टिमल्लिकापत्रैः।। मूलफलकुंकुमैलामनःशिलाभिस्तु दैत्यगुरौ ॥ ७२ ॥ व्याख्या-मल्लिकेति विचकिलपत्रैः । मूलफलेति बीजपूर्या इति वसिष्ठः॥ कृष्णतिलाञ्जनलाजैः शतपुष्पीरोधमुस्तकबलाभिः । तरणितनये च गोचरविरुद्धराशिस्थिते लायात् ॥ ७३ ॥ व्याख्या-अञ्जनं सौवीराअनं । लाजा ब्रीहिधानाः । शतपुष्पीति सोमा नाम । भास्करस्विदमायाह Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy