________________
आरम्भ-सिद्धिः
गोचरेण ग्रहाणां चेदानुकूल्यं न दृश्यते । जन्मलग्नग्रहेभ्योऽष्टवर्गेणालोकयेत्तदा ॥ १५ ॥
व्याख्या - ग्रहाणामिति सामान्योक्तेऽपि रवीन्दुजीवानामानुकूल्याभाव इति शेयं । यदुक्तं नारचन्द्रे
“रविशशिजीवैः सबलैः शुभदः स्याद्गोचरोऽथ तदभावे । प्राह्माष्टवर्गशुद्धिर्जननविलग्नग्रहेभ्यस्तु ॥ १ ॥ "
जन्मेति जन्मनि यलग्नं चेति ये च ग्रहास्तेभ्यः । अष्टवर्गेणेति अयमर्थः ग्रहस्य राशौ संचरतः षड्भ्योऽपरग्रहस्थानेभ्यः स्वस्थानाललग्नाच विचारणयाऽष्टकवर्ग उच्यते ॥ तमेवाह
अर्कः खमन्दभौमेभ्यो नवद्वयायाष्टकेन्द्रगः ९-२-११-८-९-४-७-१० । त्रिकोणायारिगो ९-५-११-६ जीवाच्छुक्रादन्त्या रिकामगः १२-६-७ ॥ ५२ ॥ चन्द्रादुपचयस्थो ३-६-१०-११ ज्ञाद्वीधर्मोपचयान्त्याः ५-९-३-६-१०-११-१२ । पातालोपचयान्त्येषु ४-३-६-१०-११-१२ लग्नाच्च तरणिः शुभः ॥ ५३ ॥ इति व्यष्टवर्गः ॥ १ चन्द्रश्चोपचये ३-६-९०-११ लग्ना
द्भानोः साष्टस्मरे स्थितः ३-६-१०-११-८-७ । स्वात्सादिसप्तमे ३ -६-१०-११-१-७ ष्वारा
त्सद्रव्यनवमात्मजे ३-६-१०-११-२-९-५ ।। ५४ ।। छिद्रत्रिलाभात्मज केन्द्रगो ८ ३-११-५-१-४-७-१० बुधाद्गुरोस्तु रिपाष्टमला भकेन्द्रगः १२ -८-११-१-४-७-१० । शुक्रात्रिपञ्चास्तनवायखांबुगः ३-५-७-९-११-१०-४, शुभः शनेः षत्रिसुतायगः ६३.५-११ शशी ॥ ५५ ॥ ॥ इति चन्द्राष्टवर्गः ॥ २
Aho! Shrutgyanam