________________
संप्रतिनृप
॥ ३ ॥
१ तिचरित्रम
तद्यस्मा - ज्जीवन्ती गर्भभृत् पुनः ॥ ८८ ॥ स ततः साक्षिणः कृखा-कारयत् पटमण्डपम् । कृत्वा तस्योपरि च्छिद्रं, ज्योत्स्नां मूर्ध्नि स्थिते विधौ ॥ ८९ ॥ अधः सुधाधिकद्रव्य-संस्कृतक्षीरपूरितम् । स्थालं निवेश्य रन्ध्रान्तः - प्राप्तेन्दुमतिविम्बभाक् ॥ ९० ॥ चाणिक्यस्तां मृतामूचे, त्वत्कृते पुत्रि ! चन्द्रमाः । आनीतोऽस्ति मया मन्त्र - रत्राऽऽकृष्यैष तत्पिब ||११|| चन्द्रं मत्वा च तं हर्षात्, पपौ साऽथ यथा यथा । तथा तथोपरि च्छिद्रं, प्यधत्तोर्ध्वस्थितः पुमान् ॥ ९२ ॥ गर्भो भाव्येष संपूर्णः, किं न वेति परीक्षितुम । अर्द्धपीते स ऊनेता मियाँल्लोकार्थमस्त्विति ॥ ९३ ॥ तयोक्ते नेति सोऽवादीत्, पिब तर्ह्यन्यमत्र तां । लोकार्थमानयिष्यामीत्येवं श्रद्धामपूरयत् ॥ ९४ ॥ अथोत्पादयितुं द्रव्यं, स धातुविवरेष्वगात् । धातुर्वा दैव तत्प्राज्य-मुत्पाद्य पुनरागमत् ।। ९५ ।। ददर्श तत्र चाणिक्यः सर्वलक्षणधारिणम । क्रीडन्तं दारकं राज-नीत्या संवसथाद्रहिः || ९६ ।। पुरमालिख्य- निःशेषं, सदः सिंहासनासिनम् । प्राज्यैः परिवृतं डिम्भः, सामन्तादिपदे कृतैः ॥९७॥ देशादीनां विलस (भ) नं, कुर्वाणं दर्पमुद्धरं । दृष्ट्वा तुष्टः स चाणिक्य-स्तं परीक्षार्थचिवान् ॥ ९८ ॥ ममापि दीयतां किञ्चिद्देवेत्याकर्ण्य सोऽभ्यधात् । विषैतानि चरन्ति त्वं, गोकुलानि गृहाण भोः ॥ ९९ ॥ सस्मतान्यहं गृह्णन्, मार्थे गोस्वामिकैर्न किम् ? | स ऊचे किं न जानासि, वीरभोज्या वसुन्धरा ॥ १०० ॥ औदार्यशौर्यविज्ञानै-स्तं बालं स विदन्नपि ! कस्यामिति कञ्चिडिम्भ स ऊचिवान् ।। १०१ ।। महत्तरस्य दोहित्र - चन्द्रगुप्तोऽयमाख्यया । गर्भस्थोऽप्येष निःशेपैः परिव्राजकसात्कृतः ॥ १०२ ॥ ततो हर्पेण चाणक्य - चन्द्रगुप्तमभाषत । आगच्छागच्छ भो वत्स !, यस्य त्वमसि सोऽस्म्यहम् || १०३ || करोमि सत्यं राजानं, क्रीडाराज्येन किं तव । इत्युक्वा तमुपादाय, चाणिक्यः स गतोऽन्यतः ॥ १०४ ॥ मेलयित्वा धनैस्तै, चतुरङ्गं महद्वलम् । चन्द्रगुप्तं नृपं चक्रे, स्वयं मंत्री वभूव च ॥ १०५ ॥ सर्वौघेण ततो गत्वा वेष्टयन्नन्द पत्तनम् । कारागार इवाऽरौत्सीत्, तत्र धान्यादिकं विशत् ॥ १०६ ॥ नन्दोऽपि सर्वसामय्या, निःसृत्य नगराद्वहिः । मन्दराद्रिरिवाऽम्भोधि, गाहयामास तद्बलम् ॥ १०७ ॥ नन्दसैन्यवलेनाथ, चन्द्रचाणिक्ययोश्चमूः ।
॥ ३ ॥