SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ मद्यशोवि. ॥ ४३ ॥ एनं केचित् समापत्तिं वदंत्यन्ये ध्रुवं पदम् ॥ प्रशान्तवाहितामन्ये विसजागरूयं परे ॥ १५ ॥ चर्मचक्षुर्च्छतः सर्वे देवाश्चावधिचक्षुषः ॥ सर्वतश्चक्षुषः सिद्धा योगिनः शास्त्रचक्षुषः ॥ १६ ॥ परीक्षंते कषछेदतापैः स्वर्ण यथा जनाः ॥ शास्त्रेऽपि वर्णिकाशुद्धिं परीक्षंतां तथा बुधाः ॥ १७ ॥ विधयः प्रतिषेधाश्च नूयांसो यत्र वर्णिताः ॥ एकाधिकारा दृश्यन्ते कषशुद्धिं वदन्ति ताम् ॥ १८ ॥ सिद्धान्तेषु यथा ध्यानाध्ययनादिविधिनाः ॥ हिंसादीनां निषेधाश्च नूयांसो मोक्षगोचराः ॥ १९ ॥ अर्थकामविमिश्रं यद्यच्च कॢप्तकथा विलम् ॥ आनुषंगिकमोक्षार्थं यन्न तत् कषशुद्धिमत् ॥ २० ॥ विधीनां च निषेधानां योगक्षेमकरी क्रिया ॥ वर्त्यते यत्र सर्वत्र तच्चास्त्रं बेदशुद्धिमत् ॥ २१ ॥ कायिकाद्यपि कुर्वीत गुप्तश्च समितो मुनिः ॥ कृत्ये ज्यायसि किं वाच्यमित्युक्तं समये यथा ॥ २२ ॥ श्रन्यार्थं किंचित्सृष्टं यत्रान्यार्थमपोह्यते ॥ दुर्विधिप्रतिषेधं तन्न शास्त्रं वेदशुद्धिमत् ॥ २३ ॥ निषिद्धस्य विधानेऽपि हिंसादेर्जुतिकामिनिः ॥ दाहस्येव न सधै धैर्याति प्रकृतिपुष्टता ॥ २४ ॥ | हिंसा जावकृतो दोषो दाहस्तु न तथेति चेत् ॥ नूत्यर्थं तविधानेऽपि जावदोषः कथं गतः ॥ २५ ॥ वेदोक्तत्वान्मनः शुद्ध्या कर्मयज्ञोऽपि योगिनः ॥ ब्रह्मयज्ञ इतीवन्तः श्येनयागं त्यजन्ति किम् ॥ २६ ॥ वेदान्तविधिशेषत्वमतः कर्मविधेर्हितम् ॥ | जिन्नात्मदर्शकाः शेषा वेदान्ता एव कर्मणः ॥ 29 ॥ कर्मणां निरवद्यानां चित्तशोधकतां परम् ॥ सांख्याचार्या अपीलन्तीत्यास्तामेषोऽत्र विस्तरः ॥ २८ ॥ यत्र सर्वनयालंबिविचारप्रबलाग्निना ॥ तात्पर्यश्यामिका न स्यात्तष्ठास्त्रं तापशुद्धिमत् ॥ २५ ॥ यथाह सोमिलप्रश्ने जिनः स्यापादसिये ॥ व्यार्थादहमेकोऽस्मि हग्ज्ञानार्थानावपि ॥ ३० ॥ अक्षयश्चाव्ययश्चास्मि १ तापरं. अधिकार. १ ॥ ४३ ॥
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy