________________
मद्यशोवि.
॥ ४८ ॥
वान्निरुपादानं यदि विषत्तनु स्थितिः ॥ तथापि काल नियमे तत्र युक्तिर्न विद्यते ॥ ३० ॥ उश्रृंखलस्य तच्चित्यं मतं वेदान्तिनो हृदः ॥ प्रारब्धादृष्टतः किं तु ज्ञेया विषत्तनुस्थितिः ॥ ३१ ॥ समारब्धेत रादृष्टं ज्ञाननाश्यं यदीष्यते ॥ लाघवेन विजातीयं तन्नाश्यं तत्प्रकल्प्यताम् ॥ ३२ ॥ इत्थं च ज्ञानिनो ज्ञाननाश्यकर्मक्षये सति ॥ क्रियैकनाश्यकमघक्षयार्थ सापि | युज्यते ॥ ३३ ॥ सर्वकर्मक्षये ज्ञानकर्मणोस्तत्समुच्चयः ॥ अन्योऽन्यप्रतिबंधेन तथा चोक्तं परैरपि ॥ ३४ ॥ न यावत्सममन्यस्तौ ज्ञानसत्पुरुषक्रमौ ॥ एकोऽपि नैतयोस्तावत्पुरुषस्येह सिध्यति ॥ ३५ ॥ यथा बाद्मस्थिके ज्ञानकर्मणी सहकृत्वरे ॥ कायिके अपि विशेये तथैव मतिशालिभिः ॥ ३६ ॥ संप्राप्तकेवलज्ञाना अपि यनिपुंगवाः ॥ क्रियां योगनिरोधाख्यां कृत्वा सिध्यंति नान्यथा ॥ ३७ ॥ तेन ये क्रियया मुक्ता ज्ञानमात्रानिमानिनः ॥ ते चष्टा ज्ञानकर्मन्यां नास्तिका नात्र संशयः ॥ ३८ ॥ ज्ञानोत्पत्तिं समुन्नाव्य कामादीनन्यदृष्टितः ॥ अपडुवानैर्लोकेन्यो नास्तिकैर्वश्चितं जगत् ॥ ३९ ॥ ज्ञानस्य परिपाकाद्धि क्रियाऽसंगत्वमंगति ॥ न तु प्रयाति पार्थक्यं चंदनादिव सौरभम् ॥ ४० ॥ प्रीतिनक्तिवचोऽसंगैरनुष्ठानं चतुविधम् ॥ यत्परैयगिनिगतं तदित्थं युज्यतेऽखिलम् ॥ ४१ ॥ ज्ञाने चैव क्रियायां च युगपदिहितादरः ॥ जन्यजावविशुधः सन् प्रयात्येव परं पदम् ॥ ४२ ॥ क्रियाज्ञानसंयोगविश्रांत चित्ताः समुद्भूतनिर्बाधचारित्रवृत्ताः ॥ नयोन्मेष निर्णीतनिःशेषजावास्तपः शक्तिसन्धप्रसिद्धप्रभावाः ॥ ४३ ॥ जयत्रोधमायामदाज्ञाननित्राप्रमादोज्जिताः शुक्रमुद्रा मुनीन्द्राः ॥ यशः श्री समालिंगिता वादिदंतिस्मयोच्छेदहर्यतुझ्या जयंति ॥ ४४ ॥
11
"
॥
इति पंडित श्रीनयविजयगणिशिष्य पंडित श्रीपद्मविजयगणिसहोदरोपाध्याय श्रीयशोविजयगणिविरचितेऽध्यात्मोपनिषत्प्रकरणे क्रियायोगशुद्धिनामा ३
१ सहगत्वरे ।
॥
अधिकार. ३
॥ ४८ ॥