________________
4%
नमस्कारमाहात्म्ये।
ASHA
जीवेनाकृतकृत्यानि, विना भावनमस्कृतिम् । गृहीतानि विमुक्तानि, द्रव्यलिङ्गान्यनन्तशः ॥ २७॥ अष्टावष्टौ शतान्यष्ट, सहस्राण्यष्ट कोटयः । विधिध्याता नमस्काराः, सिद्धयेऽन्तर्भवत्रयम् ॥ २८ ॥ धर्मवान्धव ! निश्छद्य-पुनरुक्तं त्वमर्थ्यसे । संसारार्णवबोहित्थे, माऽत्र मन्त्रे श्लथो भव ॥ २९॥ अवश्य यदसौ भाव-नमस्कारः परं महः । स्वर्गापवर्गसन्मार्गों, दुर्गतिप्रलयानिलः ॥ ३० ॥ शिवतातिः सदा सम्यक, पठितो गुणितः श्रुतः । समनुप्रेक्षितो भव्यैः, विशिष्याराधनाक्षणे ॥ ३१ ।। प्रदीप्ते मवने यद्वत्, शेषं मुक्वा गृही सुधीः । गृह्णात्येकं महारत्नं, आपभिस्तारणक्षमम् ।। ३२ ॥ आकालिक-रणोत्पाते, यथा कोऽपि महामटः । अमोघमस्त्रमादत्ते, सारं दम्भोलिदण्डवत् ॥ ३३ ॥ एवं नाशक्षणे सर्व-श्रुतस्कन्धस्य चिन्तने । प्रायेण न थमो जीवः, तस्मात्तद्गतमानसः ॥ ३४ ॥ द्वादशाङ्गोपनिषदं, परमेष्ठिनमस्कृतिम् । धीरधीः सल्लसल्लेश्यः, कोऽपि स्मरति साविकः ॥ ३५ ॥ समुद्रादिव पीयूषं, चन्दनं मलयादिव । नवनीतं यथा दप्नो, वजं वा रोहणादिव ।। ३६ ॥ आगमादुद्धृतं सर्व-सारं कल्याणसेवधिम् । परमेष्ठिनमस्कार, धन्याः केचिदुपासते ॥ ३७॥ संविनमानसाः स्पष्ट-गम्भीरमधुरखराः। योगमुद्राधरकराः, शुचयः कमलासनाः ॥ ३८॥ उच्चरेयुः स्वयं सम्यक, पूर्णा पश्चनमस्कृतिम् । उत्सर्गतो विधिरयं, ग्लान्याऽत्रैते न चेत्क्षमाः॥ ३९॥ १ .यानलः स्ख० ग. हि० । २ अका० ख०. ग. हि । ३ यद्वा को ख० ग० हि०। ४ न्या चैते ग० हि ।
॥१३॥