________________
मलय
॥ ९७॥
£* *p*+++++
અનામ
प्रकटीभृते वीक्ष्यमाणा नृपेण सा । पूर्वस्नेहेन मे गेहे रजन्यामेत्य तस्थुषी ॥ ४८ ॥ कृत्वा प्रसादमेतां तज्ज्वलंती गड्डुरीमिव । त्वं सत्पुरुष ! मे गेहान्निष्काशय कथंचन ॥ ४९ ॥ मयोचे नाथ! यद्येनां गृहान्निष्काशयामि ते । ततो मे स्यान्महद्वैरं सांप्रतं सार्द्धमेतया ॥ ५० ॥
अन्यच्चाहमिमां कर्षन् प्राप्तश्चेद्भृपपूरुषैः । पतिष्यावस्तदानर्थजाले ह्यावामुभावपि ॥ ५१ ॥ परं तवोपरोधेन करिष्ये सर्वमप्यदः । मेलये रहसि त्वं तु रजन्यामथ तां मम ॥ ५२ ॥ तुष्टा सा જમાન जेमयामास मां तदा गुरुभक्तितः । एकांते निशि जातायां मेलिता सा तया मम ॥ ५३ ॥ पश्यंती मां व जलपंती नर्मवाक्यान्यनेकशः । कामार्थ प्रार्थयामास सा विद्धा कामसायकैः ॥ ५४ ॥ मयाप्युक्तं वयस्यो मे वल्लभो रूपमन्मथः । भार्यार्थी विद्यते किंतु कार्येणार्थं गतः क्वचित् ॥ ५५ ॥ आगामिन्यां रजन्यां तु संकेतोऽस्ति कृतो मम । गोलातरंगिणीतीरे तेन भट्टारिका गृहे ॥ ५६ ॥ आगच्छेस्त्वं ततस्तत्र सोऽप्यायास्यति निश्चितं । तर्हि सुष्टुतरं यर्हि युवयोर्मिलति द्वयोः ॥ ५७ ॥ अन्यथा मनसी नूनं मिलिते स्तस्तवापि मे । तया प्रोक्तं युवां कस्मादिहायातौ च कीदृशौ ॥ ५८ ॥
109
चरित्रं
॥ ९७ ॥