________________
मलय
॥ ९६ ॥
99****000+
प्रतिपन्ने ततस्तेन कथं दास्यति किंचन । इत्येवं विस्मिते लोके मागधा संज्ञिता मया ॥ ३७ ॥ ततो मागधयावादि प्रतिवादी सुरौकसः । मध्येऽस्ति किंचन घंटे । स्वयं गत्वा गृहाण तत् ॥ ३८ ॥ | मध्ये गत्वाथ यावत्स उद्घाट्य च पिधानकं । चिक्षेपाशु घटे हस्तं तावलग्नोऽहिरुच्छ्वसन् ॥३९॥ 1 तेनाशु कर्षता हस्तं जगदेऽस्तीह किंचनं । ततो मागधयाभाणि हसंत्या हर्षयुक्तया ॥ ४० ॥ मयासीन्मानितं यत्ते तदिदं त्वं गृहाण भोः । मम तेऽपि न संबंधस्तत्र मुक्तास्म्यहं ग्रहात् ॥ ४१ ॥ ह संतोऽथ जनाः प्रोचुः सर्वे तत्रेत्यहो मतिः । अनेन योग्यमेतस्य दत्तं सुष्वतिकिंचन ॥ ४२ ॥ सर्पदष्टो महाधूर्त्तः स नीतस्तोतलामठं । अहं तु स्वगृहं नीता तया मागधयाऽग्रहात् ॥ ४३ ॥ प्रविशंत्या मया गेहं भणितं न विशाम्यहं । येनात्र वसति द्वेष्यं राज्ञः किंचन मानुषं ॥ ४४ ॥ संभ्रांता मागधा दध्यौ नूनं सामान्य एष न । नरः कोऽपि चरज्ञानी प्रच्छन्नो भ्रमति क्षितौ ॥ ४५ ॥ ततो मत्पादयोर्लना दीना सती व्यजिज्ञपत् । प्रसद्य सत्पुमन् वार्ता कर्तव्या न बहिस्त्वया ॥ ४६ ॥ | राज्ञी कनकवत्येषा कूटं कृत्वा नृपात्मजां । मारयामास भूपेन वैरिणीव निरागसं ॥ ४७ ॥ कूटेऽथ
29019
चरित्रं
॥ ९६ ॥