________________
मलय
॥ ९॥
| तस्य पाखंडिनश्चित्तं सुरूपायां मयि स्थितं । ततो गोधाप्रयोगेण निशि सौधं स एयिवान् ॥ ८२॥ कामार्थ प्रार्थयमानो वाक्यैा सामदंडजैः ॥ बोध्यमानोऽपि पापः स कथंचिद्विरराम न ॥ ८३ ॥ इतश्च राजा संप्राप्तो द्वारदेशे निशम्य तत् । क्रुद्धस्तं बंधयामास सापराधं तपस्विनं ॥ ८४ ॥ हस्य- | मानो जनैः प्रात-निद्यमानश्च भूभुजा। भ्रामयित्वा पुरीमध्ये चौरमारं स मारितः॥ ८५॥ उत्पन्नो राक्षसो दुष्टः परिणामवशेन सः । स्मृत्वापमानतां खीयां गुरुवैरमुवाहच ॥ ८६ ॥ अत्रागत्य तत
स्तेन निवेद्य स्वं च वैरिणं । हतस्ते बांधवो राजा भक्तिं कुर्वन्नपि क्षणात् ॥ ८७ ॥ जीवग्राहं ततो * नष्टा हन्यमाना भयात्प्रजाः । ऋद्धयाप्यलंकृतं शून्यं तेनेदं नगरं तव ॥८८॥ अहं तु तेन नश्यंती |धृत्वेत्यूचेऽनुरागिणा । यदि यास्यसि भद्रे त्वं त्वामानेष्याम्यहं पुनः ॥ ८९॥ अतस्त्वया न गंतव्यं कर्त्तव्यं न भयं तथा । स्थिताया अत्र सर्वापि तव चिंता पुनर्मम ॥ ९० ॥ इति स्थिते दिवा | कापि राक्षसो याति सोऽनिशं । निश्यायाति पुनयाँति ममैवं वासरा इह ॥ ९१ ॥
अथोचे सा मया तस्य । मर्म किंचित्प्रकाशय । जित्वैनं येन वैरं स्वं राज्यं च वालयाम्यहं