________________
मलय. आकर ॥ ८ ॥
भ्यां प्रतिपत्त्याहं ताभ्यामावर्जितस्तथा। विश्वस्तेन यथा तत्र । तत्तुंब न्यासितं मया ॥७१॥ स्थि| त्वा क्षिप्तः पुरीलक्ष्म्या तत्राहं कतिवासरान् । मातुरुत्कंठितः स्वीय-पुरंप्रत्युत्सुकोऽभवं ॥ ७२ ॥ कथंचिद्विज्ञातरसौ मया मार्गिततुंबकौ । श्रेष्टिनौ तौ स्फुरल्लोभौ ददतुः कूटमुत्तरान् ॥७३॥ मृषोत्तराविति कृत्वा प्रतीकारं तयोरहं । आगतोऽत्र पुरं शून्यं सर्वमैक्षिष्ट पैतृकं ॥ ७४॥श्रेष्टिसूश्चिंत| यामास स एवैष पुमान्ननु । पितरौ येन मे दुःखा-वस्थौ तौ विहितौ तदा ॥ ७५ ॥ तावन्नाविष्क-| रोमि स्वं यावत्सम्यगवैमि न । गुणवर्मेति ध्यात्वोचे आयुष्मन्नग्रतो वद ॥ ७६ ॥ ऊचे विजयचं. द्रोऽथ यावदुःखाकुलो भ्रमन् । सविस्मयश्च नापि स्वं पश्यन्मानुषमात्रकं ॥ ७७ ॥ गतो राजकुलं | | रम्य-मारुढो राजमंदिरे । भ्रातृजायां विजयाख्या-मपश्यं तावदेकिकां ॥ ७८ ॥ युग्मं ॥ वृत्तांतं सा मया पृष्टा पतदश्रुविलोचना । मधुरालापं पीठादिदानपूर्वमभाषत ॥ ७९ ॥
पुरस्य बहिरुयाने। मासं मासमुपोषितः । एको रक्तांबरो भिक्षु-रत्रासीजनरागभाक् ८० ॥ भवद् भ्रात्रा नरेंद्रेण कारितः पारणं स तु। नृपाज्ञया मयाक्षेपि जमतोऽस्य समीरणः ॥८१॥
सन्यास