SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ मलय चरित्रं | वंशच्छेदो बभूवाद्य कोऽस्मचिंतां करिष्यति । इत्येवं कुलवृद्धासु विलपंतीष्वनारतं ॥ ४७ ॥ धौरे. यान् राज्यभारस्य धिगस्मान् बुद्धिशालिनः । तदोच्चैरिति क्रंदत्सु महामात्यनरेषु च ॥४८॥ हा देव दृक्ष्यसे क्व त्वं पुनः काममनोहर । इत्येवं पुरनारीषु रुदंतीषु पुनः पुनः॥४९॥ पितृवत्पालिता देव रुलिष्यंति प्रजा इमाः । इति स्मरत्सु लोकेषु राजमार्गानुयायिषु ॥ ५० ॥ वय॑ते तरवी देव | सेचं सेचं यथांबुभिः । तथा युष्मत्प्रसादौघैर्वयमाजन्मवर्द्धिताः॥५१॥ म्रियमाणान् विना त्वां कोऽधनास्मानुद्धरिष्यति । इत्येवं याचके लोके पुरो राज्ञः प्रजल्पति ॥ ५२ ।। धीरता शरता चापि दक्षता च गभीरता । दानं सत्यं च कारुण्यं दाक्षिण्यमुपकारिता ॥ ५३ ॥ निराधारा गुणाः सर्वे संजाता एवमादयः । सहास्माभिर्नरेंद्रेति ब्रुवाणे पंडिते जने ॥ ५४ ॥ हा देवेदं न युक्तं ते सर्वस्मिनिति वादिनि । ददद्दानं नराधीशः प्राप गोलानदीतटं ॥ ५५ ॥ दशभिः कुलकं ॥ चितां कर्तुं समारेभे मुक्त्वा तत्र शवं नरैः । अवतेरे नृपेणापि स्नानं कर्तुं नदीजले ॥ ५६ ॥ जनशोकाश्रुक्वोष्णेषु गोलानद्या जलोर्मिषु । स्नानं कुर्वन्नृपो याव-तस्थौ सोत्साहमानसः॥५७॥ ॥२४॥
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy