________________
मलय
॥२१९॥
260180081896964820011
सहंति वै । सिद्धिरत्यद्भुता येन विना कष्टं न जायते ॥ ९५ ॥ तातपादा नता नैव कर्त्तव्येति च नाधृतिः । जनकाराधनासक्तो यत्त्वं प्रागधुनापि च ॥ ९६ ॥ तद्विमुंच पितुः शोकं परिभावय संस्कृति । परित्राणं न शोकेन किंचिद्भवति देहिनां ॥ ९७ ॥ भवं दुःखालयं विद्धि संगमं स्वप्नसन्निभं । लक्ष्मीं विद्युल्लतालोलां जीवितं बुद्बुदोपमं ॥ ९८ ॥ यदि युष्मादृशोऽप्येवं गुरुशिक्षाविचक्षणाः । शोकं कुति त विवेकोऽपि क्व यास्यति ॥ ९९ ॥ एवं धर्मोपदेशैः स नरेंद्रो बोधितस्तया । संविग्नो गतशोकश्च लग्नो धर्मे विशेषतः ॥ १ ॥ नित्यं महत्तरापादान् वंदतेस्म नरेश्वरः । उपदेशान् शृणो तिस्म शासनोदयकारिणः ॥ २ ॥ चैत्यं च कारयामास सिद्धिस्थाने मुनीशितुः । प्रतिमां च पितुस्तत्र विविधानुत्सवानपि ॥ ३ ॥ जनानां तत्र सर्वेषां उपकारं विधाय सा । आपृच्छ्य नृपतिं तस्माद्विजहार महत्तरा ॥ ४ ॥ पृथ्वीस्थानपुरं सापत् प्रतिबोधयितुं क्रमात् । पितृशोकाकुलं भूपं सहस्रबलसंज्ञितं ॥ ५ ॥ धर्मोपदेशदानेन सहस्रबल भूपतिः । संबोध्य सपरीवारस्तया धर्मे स्थिरीकृतः ॥ ६ ॥ कतिचिदिनपर्यंते नंतुमुत्को महत्तरां । राजा शतबलोऽप्यागाद्भ्रातृस्नेहेन तत्र सः ॥ ७ ॥ महत्तरां ववंदाते
ॐ
***
चरित्रं
॥२१९॥