________________
मलयः
चरित्र
॥२११॥
धिनां ॥ ४ ॥ मुनीनां भक्तिरावाभ्यां सदा कार्या विशेषतः । इति चाभिग्रहोऽग्राहि पार्श्वे केवलिनो गुरोः ॥ ५॥ अन्ये केऽपि तदा भव्या बभूवुः संयमोद्यताः। श्राद्धधर्मोयताः केपि शेषा भद्रकचे | तसः ॥ ६ ॥ निजापत्यचरित्रं तौ श्रुत्वा द्वावपि भूपती । जातो संसारभोतांतःकरणो चरणोद्यतौ
॥७॥ ऊचतुश्च प्रभो कृत्वा स्वखराज्यस्य चिंतनं । दीक्षामावां गृहीष्यावः सत्वरं भवदंतिके ॥८॥ |मा काष्टं प्रतिबंधं भो इत्युक्ते गुरुणाथ तौ । नत्वाऽगातां पुरं स्वं स्वं राज्यचिंतां च चक्रतुः ॥ ९॥ महाबलकुमाराय सूरपालेन भूभुजा । पृथ्वीस्थानपुरैश्वर्य दत्तं तत्रैव तस्थुषा ॥ १० ॥ महाबलसुतस्तस्मिन् राजा शतबलाभिधः । बालोऽपि स्थापितो दंगे सागरतिलकाभिधे ॥ ११ ॥ श्रीवीरधव| लेनापि राज्ञा तत्रैव तस्थुषा । सुतो मलयकेतुश्च निजराज्ये नृपः कृतः॥ १२ ॥ ततो द्वावपि राजानौ । | स्वस्वभार्यासमन्वितौ । तस्य केवलिनः पार्श्वे तो गृह्णीतःस्म संयम ॥ १३ ॥ कतिचिदिवसांस्तत्र | स्थित्वान्यत्र महीतले । विजहार गुरुस्ताभ्यां राजर्षिभ्यां समन्वितः ॥ १४ ॥ तप्त्वा सर्वेऽपि ते तीव्र तपो गत्वा सुरालयं । महाविदेहक्षेत्रे च सिद्धिं यास्यंत्यकर्मकाः ॥१५॥ अथो मलयकेतुराट् समा
*** 514-*-4
॥२११॥