________________
मलय
॥२१०॥
260469848086864888460
पार्श्वात्कनकवत्याश्च वैरिण्याः पूर्वजन्मनः । राक्षसीत्वकलंकोऽस्या निर्दोषाया अजायत ।। ९३ ।। आभ्यां सेहे महादुःखं स्वस्वकर्मानुमानतः । यतोऽनुभृतमेवात्र बलवत्कर्म निर्जरेत् ॥ ९४ ॥ पुरा मलयसुंदर्या यद्रजोहरणं हृतं । मुनिहस्तादभूत्तेन वियोगः सह सूनुना ।। ९५ ॥ उपसर्गान् पुरा कृत्वा मूभ्यामाराधितो मुनिः । उत्पन्नकेवलज्ञानो महाराजाहमेव सः ॥ ९६ ॥ अस्या मलयसुंदर्याः कुमारस्य च संप्रति । द्वितीयं जन्म राजेंद्र ! भवस्त्वेकः स एव मे ॥ ९७ ॥ राजोचे भगवंस्ते द्वे सुरी aaaa । एतयोर्वत्सयोः किंचिदतोऽप्यपकरिष्यतः ॥ ९८ ॥ सूरिरुचे यदा राजन कुमारेणाहता सुरी । गतोपशांतवेरा सा तदेव निजमास्पदं ॥ ९९ ॥ भ्रमंती कनकवती सात्रैव नगरे पुनः । उपद्रोष्यत्यमुं राजन्नेकशस्तव नंदनं ॥ ७०० ॥ ततः कनकवत्येवा व्यंतरी साप्युभे इमे । संसारमर्जितैनस्के अनंतं पर्यटिष्यतः ॥ ९ ॥ राजन्मलयसुंदर्या महाबलनृपस्य च । यस्त्वयाथ भवः पृष्टः स मया कथितोऽखिलः || २ || एवं मलयसुंदर्या महाबलनृपस्य च । निशम्य चरितं स बभूवुर्भवनिःस्पृहाः ॥ ३ ॥ दंपतीभ्यां तदा ताभ्यामाकर्ण्य चरितं निजं । वैराम्येण गृहीतानि व्रतानि गृहमे
1800180469
चरित्रं
॥२१०॥