________________
मलय
॥१५६॥
*
श्यतां गते मोने जनानां निम्नपाथसि । पार्श्वे मलयसुंदर्या नृपोऽगाद्विस्मिताशयः ॥ ९४ ॥ तामालोक्य व्रणाकीर्णामपि लावण्यसेवधिं । नृपोऽवोचदियं तावत्काचिन्नारी मनोहरा ॥ ९५ ॥ परमेवं प्रयत्नेन समानायि झषेण किं । सुखेनैवं किमादाय मोचितेयं जलादहिः ॥ ९६ ॥ गतः किमेष मत्स्यस्तु पश्चात्पश्यन् पुनः पुनः । नो जानोमो वयं किंचित् सर्वमेषैव वक्ष्यति ॥ ९७ ॥ यदस्या वपुषीक्ष्यंते नचक्रक्षतान्य हो । तन्मन्ये भीषणं भ्रांता जलराशिभयं बहु ॥ ९८ ॥ किं केनापि समुत्क्षिप्य क्षिप्तेयं वैरिणार्णवे । नौभंगे पतिता किंवा महामीनस्य पृष्टके ॥९९॥ अथोचे सा नरेंद्रेण पुरस्यास्याहमीश्वरः । सागरतिलकाख्यस्य कंदर्पो नाम सुंदरि ! ॥ २०० ॥ मा भैस्त्वं भव विश्वस्ता कथयात्मानमत्र मे । का त्वं किं पतिता दुःखे मीनेनैवं धृता कथं ॥ १ ॥ ततः प्रमुदिता किंचिदध्यौ मलयसुंदरी । अहो पुण्यलवाः केचिजाग्रत्यद्यापि मे ननु ॥ २ ॥ यतो यत्र पुरे तेन सार्थ - वाहेन मे सुतः । मुक्तोऽभूत्काप्यहं तत्रैवानीता कर्मणा किल || ३ || तदहं यदि पुत्रस्य तस्य शुद्धिं लभे क्वचित् । ततः पश्यामि नेत्राभ्यां तमंके धारयामि च ॥ ४ ॥ एष वैरी नृपः किंतु तात
11 4001:
चरित्रं
॥१५६#