________________
मलय
॥१४९॥
गत्वाभवच्छुचिः । स्मृत्वा देवान् गुरून् चापि फलान्याद बुभुक्षिता ॥ १६ ॥ निकुंजे कापि सा यावत्पालयंती स्तनंधयं । युगपच्छोकहर्षाभ्यां तस्थौ संकीर्णमानसा ॥ १७ ॥ तत्र तावद्वहन् मार्गे परिवारेण भूयसा । बलसाराभिधस्तस्थौ सार्थवाहो नदीतटे ॥ १८ ॥ इतस्ततो जनाचेलुर्घा सैर्धोद कहेॐ तवे । निर्ययौ सार्थवाहोऽपि सार्थतः कायचिंतया ॥ १९ ॥ यत्र पुत्रद्वितीयाभृत् कुंजे मलय सुंदरी । यावत्तन्निकषा सोऽगादोदीत्तावदर्भकः ॥ २० ॥ श्रुत्वा डिंभखरं सार्थवाहो विस्मितमानसः । निकुंजं प्रविशन् बालामपश्यत्पुत्रसंयुतां ॥ २१ ॥ अपूर्वा कापि रूपश्रीर्लावण्यमसमं तथा । एतस्याश्चिंतयनेव सोऽपृच्छत्सार्थनायकः ॥ २२ ॥ कासि त्वं किमरण्येऽत्र सुंदर्येकाकिनी किमु । आकारोऽपि तवाख्याति प्रसूतिं प्रवरे कुले || २३ || अपहारेण रोषेणाथवाभीष्टवियोगतः । वने बभूव वासस्ते पुत्रस्य प्रसवोऽत्र च ॥ २४ ॥ वलसाराभिधानोऽहं व्यवहारी महर्द्धिकः । सागरतिलके दंगे वसाम्यन्यत्र यामि च ॥ २५ ॥ भव्यं जातं मया सार्द्धं यत्तेऽभूदेष संगमः । ममास्त्यत्र पटावासस्तत्रागत्य सुखं भज ॥ २६ ॥ तयाथ चिंतितं चिचें शीलं मे खंडयिष्यति । धनाढ्योऽयं युवा दृतस्तददामि
1998
4401001606
चरित्रं
॥१४९॥