________________
मलय
चरित्रं
॥१४॥
| दिदानाय नृपेणामंत्रितोऽपि सः । किंचनापि न जग्राह गुणवर्मात्र तस्थिवान् ॥ ३८॥ सत्कृत्याने- कधा राजा रसतुंबं समर्प्य तत् । पुनः स्वदेशयानाय । विसृष्टो गुणवर्मणा ॥ ३९ ॥ अर्पयित्वा तु तस्यैव तत्तुंबं गुणवर्मणः । संसर्ग तस्य न त्यक्तुं शक्तोऽपि क्षितिपो ययौ ॥ ४० ॥
अद्यायं निजवृत्तांतो निश्येत्य गुणवर्मणा । कथितो देवि मे सर्व उपायनपुरस्सरं ॥४१॥ न्या| सापहारसंभूतं दोषं पितृपितृव्ययोः । बहुधा क्षमितश्चाहं गुणिना गुणवर्मणा ॥ ४२ ॥ प्रिये सूरत-| | नूजेन गतं राज्यमुपार्जितं । वालितं च निजं वैरं तेन तद्विजयेंदुना ॥ ४३ ॥ द्विःस्वीकृत्यापि मरणं | सुतेन गुणवर्मणा । आपदंभोधिपतितः पिता पश्य समुध्धृतः ॥ ४४ ॥ ततो देवि कृतार्थास्ते येषां पुत्रा अहं पुनः । अनपत्यो हतात्मेति चिंतायाः कारणं मम ॥ ४५ ॥ कोऽर्चिष्यति गुरून् देवान् धर्मस्थानानि कः पुनः । उद्धरिष्यति मे पश्चा-कः कुलं धारयिष्यति ॥ ४६॥ मत्तो धारालपों| स्तु वंशोऽयं मूलकर्त्तनं । लप्स्यते तेन चित्ते मे चिंतावहिवलत्यलं ॥ ४७ ॥ ऊचे चंपकमालाथ भर्तुर्दुःखेन दुःखिता । देवेदं दुस्सहं दुःखं समानं ते ममापि हि ॥ ४८ ॥ केषांचित्सदपत्यानि धन्या-|
॥१४॥