SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ मलय- दुष्टा मुखे मिष्टा स्थिता सा तत्र नित्यशः । पार्श्वे मलयसुंदर्या आजगामापनासिका ॥ ४६॥ तथा॥१३॥ जल्पत्तथा तस्थौ तथा वार्ताश्चकार सा । यथा प्रत्येति धूर्ती तां विश्वस्ता भूपभूप्रिया ॥ ४७ ॥ एवं मलयसुंदर्याः पश्यंती छिद्रसंततिं । कालं निर्गमयामास सा निष्कारणेवैरिणी ॥४८॥ अथो | मलयसुंदर्या भुंजानाया निरंतरं । सुखं वैषयिकं तत्राऽभवद्गर्भस्य संभवः ॥ ४९ ॥ ततस्तस्याः | सुखेनैव काले गच्छति लीलया । पूर्यमाणासु सर्वासु वांछासु नृपसूनुना ॥ ५० ॥ मनोरथेषु सर्वेषु । * वर्द्धमानेषु नित्यशः । तस्या लावण्यपूर्णाया वेलामासः समागमत् ॥ ५१ ॥ युग्मं ।। अत्रांतरे नरेंद्रेण कुमारः स महाबलः । आदिष्टो वत्स गच्छ त्वमुद्भटैः सुभटैर्वृतः ॥ ५२ ॥ उपद्रवंतमात्मीयदेशं दुर्गस्थितं सदा । पल्लीशं क्रूरनामानं निगृहाणोगविग्रहं ।। ५३ ॥ प्रमाणं तात(युष्माकमादेश इति संसदि । जल्पित्वागत्य चाचख्यौ कुमारस्तत्प्रियांप्रति ॥ ५४॥ उत्सुका सह यानाय बोधयित्वा कथंचन | सा प्रिया स्थापिता तत्र कुमारेण महौजसा ॥५५॥ उक्तं च सांप्रतं कांतेन युक्तः स्थानचालकः। तवासन्नप्रसूतेस्तत्वं तिष्टात्रैव सुस्थिता ॥ ५६ ॥ तां ॥१३६॥
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy