________________
मलय
॥११८॥
001-20081830014696966060830984
नार्या पद्मावत्या च भार्यया । उत्तालं मिलिताशेषलोकेन च समन्वितः ॥ ४४ ॥ चित्ते तं वटमाधाय प्रस्थितो भूपतिर्द्धतं । अपश्यच्च यथाख्यातं कुमारं तं तथास्थितं ॥ ४५ ॥ त्रिभिर्विशेषकं ॥ चन्नश्रूणि लोकेन सार्द्धं राजा जगाविति । हा वत्स! स्वच्छचित्तैषा दुःखावस्था कथं तव ॥ ४६ ॥ तिष्टत्येकत्र चौरोऽयं लंबमानो वटद्रुमे । वत्स त्वमीदृशं दुःखमन्यतोऽनुभवन्पुनः ॥ ४७ ॥ धिग्धग् राज्यमिदं सर्वं धिग्मे दोर्दंडविक्रमं । यदेषा ते समायासीन्महती विपदीदृशी ॥ ४८ ॥ जल्पन्निति महीपाल आह्वाय्याह्नाय वर्द्धकिं । छेदयित्वा च शाखे ते सुखेनाकर्षयत्सुतं ॥ ४९ ॥ पीडाभरसमाक्रांतमक्षमं वक्तुमप्यमुं । महाबलं सुतं वीक्ष्य विह्वलं घूर्णितेक्षणं ॥ ५० ॥ शीतलं कारयामास वातं भूपः स्वसेवकैः । अंगं संवाहयामास कदलीदलकोमलं ॥ ५१ ॥ युग्मं ॥
I
समुन्मीलितनेत्रोऽथ विस्फुरच्चारुचेतनः । पद्मावत्या जनन्येति सादरं भाषितः सुतः ॥ ५२ ॥ हा वत्स ! दुर्लभालोक! मया त्वं हीनसत्वया । हारालोकनकार्येण समादिष्टस्तदाज्ञया ॥ ५३ ॥ क्व गतस्त्वं स्थितः कुत्रानुभूतं किं किमु त्वया । कुमारेषा कथं जाता दुःस्यावस्था तवापि च ॥ ५४ ॥
85119380
Big B9 ÷ Apg
चरित्रं
॥११८॥