________________
| मिव, ज्वलन्तम् अग्निमिव च तं मुनि ते चानः स्पष्टुं कुतः समर्थाः स्युः १, द्रष्टुमपि न समर्था बभूवुः। 2| किन्तु ते तिर्यञ्चोऽपि अतिसन्तुष्टाः सन्तस्तं मुनीन्द्र त्रिः प्रदक्षिणीकृत्य लुलत्कर्ण नमत्पुच्छं लुठन्तः प्रणामं कृत्वा चामतोमुखैश्चरणैः सर्वेऽपि तस्य पुरस्ताद् उपविशन्ति स्म । तदा राजाऽदृष्टपूर्व तत्खरूपं दृष्ट्वा विस्मितः सन् इत्थं चिन्तयामास-"अहो! एतद् महाश्चर्य वीक्ष्यते !, अमी कुकुराः कुत इमं मुनीन्द्रमुपलक्षन्ते ?, किं वाऽनेन एते स्तम्भिता जडिताः कीलिता वा, अन्यथा कथमेते दुष्टा अकस्मात् शान्ति प्राप्ताः। पुनः प्रहारदानादिकंतु दूरे तिष्ठतु, प्रत्युत एष मुनिरेतेः श्वानः पुरतः स्थितैदक्षैः शिष्येरिव | सेव्यते । अहो । अस्य भगवतः काचित् सिद्धिर्वाचामगोचरा दृष्टा यद् अस्य दर्शनाद् दुर्बुद्धीनां शुनामपि i|| ईदृग् बोधः समुत्पन्नः ।। पुनरमी मुनीश्वरा भिक्षुकत्वेऽपि भूपालाः, शान्तत्वेऽपि महाभटाः, कुचेलत्वेड-18
|पि च सुभगा दर्शनीयाश्च सन्ति । तथाऽमी सर्वे श्वाना अपि सुलक्षणाः पुण्यवन्तश्च दृश्यन्ते, येषां तिर्य|| ग्भवेऽपि अस्मिन् भगवति एवंविधाऽकृत्रिमा प्रीतिर्वरीवर्ति। मां पुनर्महापराधकारिणं सुरेन्द्रदत्तस्य पुत्र |चण्डालेख्योऽपि पापिनं वृथा भूपालं धिग् अस्तु । इह यस्य मम ईदृशं दुष्टचेष्टितं वर्तते सोऽहं चक्षुष्मानपि अन्धोऽस्मि, पञ्चेन्द्रियोऽपि पाषाणोऽस्मि, तथा मनुष्योऽपि शृगालोऽस्मि । पुनश्च, अरे जीव! व्याधोऽपि मनुष्यं न हन्ति, म्लेच्छोऽपि प्रायो निरपराधं नरं न प्रहरति, त्वया पुनरियं मनुष्यमृगया कथ
१ मलिनवस्त्रत्वेऽपि । २ अतिशयेन वर्तते ।