SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्रीयशोध. लसःश्रमवारिवर्षी रोमाञ्चितो नखमुखो निश्चलोऽनुशोचन् शिरोधूनयन् सुव्याकुलश्च सन् इत्युवाच-"अहह ! चरित्रम्, किमिदं मया इन्द्रजालं दृष्टम् ?, किंवा खनखरूपमनुभूतम् ?, किमेतत् पुनर्विषमं जातं यजातिस्परणं प्राप्ती भवः८ ॥३४॥ * इमौ अकस्माद् मृतौ!। किञ्च, एतावतोऽपि पापस्य यदि अनयोः कुर्कुटयोरयमीदृशो महान् कर्कशो वि-13 पाकः समुद्भूतस्तर्हि आजन्मतः पापकर्दममनो मादृशो वराकः क गतौ गमिष्यति ? । निरपराधबहुजीववघोद्धतेन मया तु निश्चितम् अयं ममात्मा तीव्रतरनरकदुःखानामेव पात्रीकृतः । अन्यच्च, यथा भुजबलादिगर्वितेन राज्ञा मुक्तस्य बाणस्य प्रयोगाद् बहिनिःसृतानि पुरतः स्थितानि रुधिर-मांस-वसायुतानि अनयोः पक्षिणोरेतानि अत्राणि बीभत्सोत्पादकानि सन्ति तथा सर्वेषामपि शरीरबन्धो बहिः शुचिः अन्तः अशुचिश्व ईदृश एवास्ति; अहो! एवंविधस्य मल-मूत्रगृहस्य रोगाकुलस्य विनश्चरस्य शरीरस्य निमित्तम् अज्ञानिनः पुरुषा भवकोटिकारणानि पापानि समाचरन्ति !"। पुनः कालदण्डो नृप-जनन्योः स्मरन् इत्युवाच-"हा मातश्चन्द्रमति देवि ! त्वं के दूरं गताऽसि ? हा देव सुरेन्द्रदत्त ! तव किं बभूव । हा हन्त ! कुर्कुटभवेऽपि मम युष्मत्संयोगं देवो न सहते स्म, अन्यथा कथम् अकस्माद्वियोगसंपादकं शरप्रहारं विदध्यात् "। एवं बहुधाऽनुशोच्य स कालदण्डश्चित्तं स्थिरीकृत्य मुनिं प्रत्युवाच-“हे खामिन् मुनीश्वर ! हे ॥३४॥ शरण्य ! सम्प्रति त्वमेव मम शरणं भव । अहं संसाराद् भीतः सन् खयमेव जीववधा निवृत्तोऽस्मि, १ यशोधर ।। %20S4%AE%EOSCRECAS
SR No.034174
Book TitleGadyabaddha Yashodhar Charitram
Original Sutra AuthorN/A
AuthorKshamakalyan
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy