SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ पुमान् किम् उपोषितः स्यात् ?, तथा हिंसकः पुमान् किम् अपापी भवेत् १, अहं तव विचारं न जानामि । पुनर्भो देवानुप्रिय ! यदि हिंसां न मुञ्चसि तर्हि पापान्तरत्यागैः किम् ?, यतो हिंसकस्य पुंसो धर्मसम्भव एव नास्ति । उक्तञ्च “हिंसकस्य कुतो धर्मः कामुकस्य कुतः श्रुतम् १ । दाम्भिकस्य कुतः सत्यं तृष्णार्तस्य कुतो रतिः १ ॥ १ ॥ विना जीवदयामेकां सम्पूर्णाऽवयवोऽपि सन् । विकलः सकलो धर्मः शरीरं चेतनामिव ॥ २ ॥ अन्यच शृणु-यानि तत्त्वान्तराणि सन्ति तानि सर्वाण्यपि केवलं दयाया एव परिकरभूतानि यथा शाकादिः सर्वोऽपि ओदनादिभोजनस्यैव उपस्करोऽस्ति । तथाहि — मृषावादेन किल जन्तवः पीड्यन्ते, | अतोऽसृषाभाषणं तत्त्वत्तोऽहिंसैव । तथा यस्य द्रव्यम् अपहियते स प्राणी तद्दुःखदुःखितोऽत्यन्तं रोदिति क्रन्दति म्रियते च तस्माद् अदत्तादानवर्जनमपि तत्त्वतोऽहिंसैव । तथा मैथुनसेवया प्राणी योनियोत्पन्नान् बहून् त्रसजीवान् क्षणादेव विनाशयति, तस्माद् ब्रह्मचर्यपालनमपि तत्त्वतोऽहिंसैव । एवम् अन्येरपि परिग्रह विरमण-रात्रिभोजन निवृत्त्यादिभिर्व्रतोपायैः परमार्थतोऽहिंसैव साध्यते । ताम् अहिंसां परित्यजतस्ते को धर्मो भविष्यति १ । दयायां किल सर्वेऽपि गुणा लीनाः सन्ति । उक्तञ्च - " तरङ्गा इव पांथोधौ निःश्वासा इव मांरुते । तारका इव मार्तण्डे दयायां लिल्यरे गुणाः " ॥ १ ॥ १ समुद्रे । २ वायौ । ३ सूर्ये ।
SR No.034174
Book TitleGadyabaddha Yashodhar Charitram
Original Sutra AuthorN/A
AuthorKshamakalyan
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy