________________
दयस्य तया सह सुकृतकार्यकथां कुर्वतो मम वैतालिकैर्दिवसाऽवसानसमयो ज्ञापितः । ततोऽहं मुहूर्तमेकं | त्यक्त्वा परमेष्ठिस्तवादिसन्ध्याविधिं विधिना कृत्वा विपुलको मलशय्यातले सुप्तः सन् निद्रासुखेन रात्रिम् अगमयम् । ततो रात्रिपर्यन्ते दुःखप्नम् एकं दृष्ट्वा प्रबुध्य च सूर्योदयवेलां ज्ञात्वा श्रीवीतरागचरणस्मरणैकचित्तः सन् प्राभातिकं विधिं कृत्वाऽहं सभायां गतः । तत्र चैवं चिन्तयितुं लग्न :- 'मया अद्य दुःखनो दृष्टः, अस्य किं फलं भविष्यति १ । अथवा मुनीन्द्रमार्गग्रहणोद्यतस्य मे किं तेन दुःखमेन' १ । एवं यावद् मनसि | चिन्तयामि तावत् तत्र मदीया माता चन्द्रमती अपरनाम्ना यशोधरा समागता । तां च आगतां दृष्ट्वा मया | चिन्तितम् -' एषा मदुपरि अतिवत्सला कथमपि मम मनोरथं कर्तुं न दास्यति । परं मम मनः कल्पित उपायोऽस्ति, तेनाऽहं स्वचिन्तितं करिष्ये' । इति विचिन्त्य सद्य उत्थाय तां प्रति 'नमस्ते मातः !' इत्युक्त्वा प्रणम्य च उचितमासनं दत्तम् । तदा तथा आसने उपविश्य इत्थमाशीर्दत्ता
"अद्य ते विपदो यान्तु स्फुरन्तु तव सम्पदः । त्वं वत्स ! भुवि नो वाक्यै रक्षकत्वं सदाऽऽमुहि” ॥ १ ॥ अथ तदाशीर्वचःप्रान्ते मम तया सह वार्त्तालापो बभूव । तत्र च मयोक्तम् - "हे मातः ! अद्यैकः खप्नो दृष्टः " । तयोक्तम्- ' हे वत्स ! कोऽसौ १, मां कथय' । तदा मयोक्तम् - " हे अम्ब ! विरुद्धोऽस्ति । तथाहि
I
१ प्रबोधकरैः स्तुतिपाठकैः । १ अस्माकम् ।