________________
श्रीयशोधरचरित्रप्रारम्भः
अस्मिन् जम्बूद्वीपे मरतक्षेत्रे विविधसम्पद्विभूषितसर्वप्रदेशे मगधदेशे प्रवरतरं राजपुरं नाम नगरमासीत् । तत्र महामिथ्यात्वमोहितमतिः सुदुष्टपरिणतिः पञ्चेन्द्रियविषयासक्तः कौलमतभक्तो मारिदचनामा राजा बभूव । स च अनादिभवाऽभ्यस्तमिध्यात्वोदयाद् महाकुमार्गपतितः सन् त्रिजगदीश्वरं जिनेश्वरं कदापि स्वप्नेऽपि न जानाति स्म । तस्य राज्ञश्चण्डमारिरिति नाम्ना व्यन्तरी कुलदेवी अभूत् । साऽपि महामिथ्यादृष्टितयाऽतीव दुष्टा, अत एव च धर्मिष्ठप्राणिनाम् अनिष्टाः समजनिष्ट । तथा तस्य नगरस्य पार्श्वतो दक्षिण| दिग्भागे तस्या एव देव्या एकं महद् मन्दिरमासीत् । तत्स्वरूपं यथा-यत्र महिषीशृङ्गाणां तु तोरणानि आसन्, भारण्डपक्षिणोऽण्डकाः कलशस्थाने बभूवुः, एकं महद् अस्थिखण्डं दण्डस्थाने तस्थौ, व्याघ्रपुच्छस्य ध्वजोऽभूत्, गजचर्मणश्चन्द्रोदयो बभौ गजदन्तानामेव स्तम्भा आसन्, कपर्दकैर्जटितम् अङ्गणं शोभते स्म । तथा, शङ्खचूर्णेन यद् धवलितम्, रुधिरच्छटाभिश्च अरुणीकृतमासीत् । पुनः, जीवानां दन्त-जिह्वाद्यव | यवा एव यत्र पुष्प - पलवप्रकरस्थाने बभूवुरिति । तस्मिन् एवंविधविकरालरूपघरे तस्याश्चण्डिकाया विरू| पाकृतिरेव मूर्तिरासीत् । सा च एकस्मिन् हस्ते कर्त्तिकां नर्तयन्ती, अन्यस्मिन् पुनर्भयङ्करं मुद्गरं धारयन्ती,